पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः

4-3-110 पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम्

Kashika

Up

index: 4.3.110 sutra: पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः


णिनिरिह अनुवर्तते, न ढिनुक्। पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। भिक्षुनटसूत्रयोः इति यथासङ्ख्यं प्रत्ययार्थविशेषणम्। सूत्रशब्दः प्रत्येकमभिसम्बध्यते। तद्विषयता चात्रेष्यते, तदर्थें छन्दोग्रहणमनुवर्त्यं, गुणकल्पनया च भिक्षुनटसूत्रयोः छन्दस्त्वम्। पाराशर्येण प्रोक्तमधीयते पराशरिणो भिक्षवः। शैलालिनो नटाः। भिक्षुनटसूत्रयोः इति किम्? पाराशरम्। शैलालम्।

Siddhanta Kaumudi

Up

index: 4.3.110 sutra: पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः


पाराशर्येंण प्रोक्त भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥

Balamanorama

Up

index: 4.3.110 sutra: पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः


पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः - पाराशर्येणेति । पराशरशब्दाद्गर्गादित्वाद्गोत्रे यञि-॒पाराशर्यः॑ व्यासः । इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ् । तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक् । पाराशरिण इति । जसि रूपम् । शैलालिन इति । शिलालिन्शब्दान्नटसूत्रे प्रोक्ते णिनौ टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याऽणो लुकि 'शैलालिन' इति जसि रूपमिति भावः ।

Padamanjari

Up

index: 4.3.110 sutra: पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः


तदर्थं च्छन्दोग्रहणमनुवर्त्यमिति । ननु तदनुवृतावपि कथं भिक्षुनटसूत्रयोश्च्छन्दस्त्वम् ? तत्राह - गुणकल्पनय चेति । उपचारस्य निमितभूतो धर्मो गुणो गुरुशुश्रूपणादिः, तन्निमिता कल्पना गुणकल्पना । पाराशरिण इति । पूर्ववद्यलोपः । शैलालिन इति । शिलामलते इति शिलाली, ठलं भूपणपर्याप्तिवारणेषुऽ इत्येतस्मात्'सुप्यजातो' इति णिनिः, ततोऽस्मिन् णिनौ टिलोपः । पाराशरमिति । कण्वाद्यण् । शैलालमिति । औत्सर्गिकेऽणि'नान्तस्य टिलोपे सब्रह्मचारि' इत्यादिना टिलोपः ॥