छगलिनो ढिनुक्

4-3-109 छगलिनः ढिनुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छगलिन्शब्दाद् ढिनुक् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। कलाप्यन्तेवासित्वाद् णिनेरपवादः। छगलिना प्रोक्तमधीयते छागलेयिनः॥

Siddhanta Kaumudi

Up

छगलिना प्रोक्तमधीयते छागलेयिनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<छगलिनो ढिनुक्>> - छगलिनो । छगलिन्शब्दाक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इत् । उकार उच्चारणार्थः । 'ढिन्' शिष्यते । ढस्य एय् । टिलोपः । ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य णिनिः स्यादिति । 'उक्तविषये' इति शेषः । मण्डूकप्लुत्या णिनिरेवानुवर्तते इति भावः । पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटसूत्रमित्यर्थे च तृतीयटान्ताण्णिनिः स्यादिति यावत् । भिक्षवः=संन्यासिनः, तदधिकारिकं सूत्रं भिक्षुसूत्रं=व्यासुप्रणीतं प्रसिद्धम् ।

Padamanjari

Up