4-3-108 कलापिनः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम्
index: 4.3.108 sutra: कलापिनोऽण्
कलापिशब्दादण् प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। वैशम्पायनान्तेवासित्वाण् णिनेरपवादः। कलापिना प्रोक्तमधीयते कालापाः। इनण्यनपत्ये 6.4.164 इति प्रकृतिभावे प्राप्ते, न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतलिजाजलिजाङ्गलि. लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम्। इति टिलोपः। अथाण्ग्रहणं किम्, यथाप्राप्तम् इत्येव सिद्धम्? अधिकविधानार्थं, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानि इत्येवमादि सिद्धम्।
index: 4.3.108 sutra: कलापिनोऽण्
कलापिना प्रोक्तमधीयते कालापाः ।<!नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् इत्युपसंख्यानाट्टिलोपः !> (वार्तिकम्) ॥
index: 4.3.108 sutra: कलापिनोऽण्
कलापिनोऽण् - कलापिनोऽण् ।तेन प्रोक्त॑मित्येव वैशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः । कालापा इति । कलापिन्शब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः ।॒इनण्यनपत्ये॑ इति प्रकृतिभावमाशङ्क्याह — नान्तस्येति ।
index: 4.3.108 sutra: कलापिनोऽण्
यथाविहितमेवोच्येतेति । तत्र वचनसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यतीति भावः । एवमादीनीति । आदिशब्देन मौदाः, पैप्पलादाः, शाकला इत्येतेषां ग्रहणम्। अत्र मुद-पिप्पलादःशाकल्य - इत्येतेभ्यः'पुराणप्रोक्तेषु' इति णिनेरपवादोऽण्भवति ॥