कठचरकाल्लुक्

4-3-107 कठचरकात् लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कठचरकशब्दाभ्यां परस्य प्रोक्तप्रत्ययस्य लुग् भवति। कठशब्दाद् वैशंपायनान्तेवासिभ्यः ४.३.१०४ इति णिनेः, चरकशब्दादप्यणः। कठेन प्रोक्तमधीयते कठाः। चरकाः। छन्दसीत्येव — काठाः। चारकाः॥

Siddhanta Kaumudi

Up

कलापिना प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कठचरकाल्लुक्>> - कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति । प्रकरणलभ्यम् । कठा इति । वैशम्पायनान्तेवासित्वलक्षणणिनो लुक् । अध्येत्रणस्तुप्रोक्ताल्लु॑गिति लुक् । चराका इति । चरकेण प्रोक्तमधीयते । इत्यर्थः । प्रोक्ताणोऽनेन लुक् अध्येत्रणः प्रोक्ताल्लुक् ।

Padamanjari

Up