शौनकादिभ्यश्छन्दसि

4-3-106 शौनकादिभ्यः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम् णिनिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शौनक इत्येवमादिभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये छन्दस्यभिधेये। छाणोरपवादः। शौनकेन प्रोक्तमधीयते शौनकिनः (कौ०सू० ८५.८)। वाजसनेयिनः (आप०श्रौ० १.८.१२)। छन्दसीति किम्? शौनकीया शिक्षा। कठशाठ इत्यत्र पठ्यते। तत् संघातार्थम् केवलाद्धि लुकं वक्ष्यति ४.३.१०७। कठशाठाभ्यां प्रोक्तमधीयते काठशाठिनः॥ शौनक। वाजसनेय। साङ्गरव। शार्ङ्गरव। सांपेय। शाखेय। खाडायन। स्कन्ध। स्कन्द। देवदत्तशठ। रज्जुकण्ठ। रज्जुभार। कठशाठ। कशाय। तलवकार। पुरुषांसक। अश्वपेय। शौनकादिः॥

Siddhanta Kaumudi

Up

छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शौनकादिभ्यश्छन्दसि>> - ॒छन्दोब्राआहृणानि च तद्विषयाणी॑त्यध्येतृप्रत्ययान्तत्वनियमस्तु कल्पेषु न सर्वत्र प्रवर्तत इतिछन्दोब्राआहृणानी॑ति सूत्रेभाष्ये स्पष्टम् । याज्ञवल्कानीति । याज्ञवल्क्येन प्रोक्तानीत्यर्थः । आश्मरथ इति । आश्मरथ्येन प्रोक्त इत्यर्थः । यलोप इति । यज्ञवल्काआरथशब्दौ कण्वादी । ताभ्यां यञन्ताभ्यामणिआपत्यस्य चे॑ति यलोप इत्यर्थः । याज्ञवल्क्याऽऽश्मरथ्यावाधुनिकावित्यभिमानः । भाष्ये तु शाठआयनादितुल्यकालत्वाद्याज्ञवल्क्यादिभ्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्धमित्यास्तां तावत् ।

Padamanjari

Up