4-3-105 पुराणप्रोक्तेषु ब्राह्मणकल्पेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम् णिनिः
प्रत्ययार्थविशेषणमेतत्। तृतीयासमर्थात् प्रोक्ते णिनिः प्रत्ययो भवति यत् प्रोक्तं पुराणप्रोक्ताश्चेद् ब्राह्मणकल्पास्ते भवन्ति। पुराणेन चिरन्तनेन मुनिना प्रोक्ताः। ब्राह्मणेषु तावत् — भाल्लविनः। शाट्यायनिनः। ऐतरेयिणः। कल्पेषु — पैङ्गी कल्पः। आरुणपराजी। पुराणप्रोक्तेष्विति किम् ? याज्ञवल्कानि ब्राह्मणानि। आश्मरथः कल्पः। याज्ञवल्क्यादयोऽचिरकाला इत्याख्यानेषु वार्ता। तया व्यवहरति सूत्रकारः। तद्विषयता कस्माद् न भवति? प्रतिपदं ब्राह्मणेषु यः प्रत्ययः, तस्य तद्विषयता विधीयते णिनेः। अयं तु याज्ञवल्क्यशब्दस्य कण्वादिषु ४.२.१११ पाठादण्। न चायं योगश्छन्दोऽधिकारमनुवर्तयति, तेन कल्पेष्वपि न भवति। पुराण इति निपातनात् तुडभावः। न चात्यन्तबाधैव, तेन पुरातनमित्यपि भवति॥
तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्क्यानि ब्राह्मणानि, आश्मरथः कल्पः । अणि आपत्यस्य -<{SK1082}> इति यलोपः ॥
<<पुराणप्रोक्तेषु ब्राह्मणकल्पेषु>> - पुराणप्रोक्तेषु ।तेन प्रोक्त॑मिति,णिनि॑रिति चानुवर्तते । मन्त्रव्यतिरिक्तवेदभागा ब्राआहृणानि । बोधायनादिकल्पसूत्राणिकल्पाः । तथाभूतेषु पुरातनमुनिप्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताण्णिनिः स्यादित्यर्थः । तदाह — तृतीयान्तादिति । यत्प्रोक्तमिति । सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राआहृणकल्पात्मकं चेदिति यावत् ।पुराणप्रोक्त॑मित्येतद्व्याचष्टे — पुराणेनेति । ब्राआहृणे उदाहरति — भल्लु-भाल्लविन इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थो प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि 'भाल्लविन' इति रूपमिति भावः । ब्राआहृणे उदाहरणान्तरमाह — शाठआयन शाठआयनिन इति । शाठआयनेति प्रकृतिनिर्देशः । शाठआयनेन पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थे प्रोक्तार्थणिनि प्रत्यये शाठआयनिन्शब्दाध्येत्रणो लुकि 'शाठआयनिन' इति रूपमित्यर्थः । कल्पे इति । 'उदाह्यियते' इति शेषः । पिङ्ग-पैह्गी कल्प इति । पिङ्गेति प्रकृतिनिर्देशः । पिङ्गेन पुरातनमुनिना प्रोक्त इत्यर्थे णिनौ रूपम् ।
भाल्लविन इत्यादि । भल्लु, शाट।लयन, ऐतरेय, पिङ्ग, अरुण, पराजि इत्येतेभ्यो णिनिः । यज्ञवल्काश्मरथशब्दौ कण्वादी, ताभ्यां यञन्ताभ्यामपि ठापत्यस्यऽ इति यलोपः । ननु च याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव, शाट।लयनकादिभिर्ब्राह्मणान्तरैस्तुल्यकालत्वात् ? इत्यत आह - याज्ञवल्क्यादयो हीति । आख्यानानिउभारतादीनि । तया व्यवहरतीति । अर्थस्तु तथा वा भवत्वन्यथा वेति भावः । तद्विषयता कस्मान्न भवतीति । याज्ञवल्कादिविषयः प्रश्नः,'च्छन्दोब्राह्मणानि च' इत्यत्र पुराणप्रोक्तत्वविशेषस्यानाश्रयणात्प्राप्नोतीति भावः । प्रातपदमिति । एतल्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । एतदर्थमेव च तत्र ब्राह्मणग्रहम्; च्छन्दस्त्वादेव सिद्धेः । कल्पेषु तर्हि कस्मान्न भवति यथा - काश्यपिनः, कौशिकिन इत्यत्र ? इत्यत आह - न वायमिति । युक्तं तत्र च्छन्दोऽधिकारे तस्य योगस्यानुवृतेः, अयं तु न तथेति कल्पेष्वपि तद्विषयता न भवतीत्यर्थः । न चात्यन्तबाधैवेति ।'सिद्धशुष्कपक्वबन्धैश्च' इति निपातनादेव सिद्धे,'शुषः कः' 'पचो वः' इति लिङ्गम् -'बाधकान्यपि निपातनानि भवन्ति' इति । यथा तु सर्वादिसूत्रे'भाष्यम्, तथा ठन्यपराण्यपि निपातनानि बाधकान्येव' इति स्थितम् ॥