कलापिवैशम्पायनान्तेवासिभ्यश्च

4-3-104 कलापिवैशम्पायनान्तेवासिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम् णिनिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कलाप्यन्तेवासिनां वैशंपायनान्तेवासिनां च ये वाचकाः शब्दास्तेभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। तत्र कलाप्यन्तेवासिनश्चत्वारः — हरिद्रुः, छगली, तुम्बुरुः, उलप इति। वैशम्पायनान्तेवासिनो नव — आलम्बिः, पलङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति। प्रत्यक्षकारिणो गृह्यन्ते, न तु व्यवहिताः शिष्यशिष्याः। कुतः? कलापिखाडायनग्रहणात्। तथाहि, वैशंपायनान्तेवासी कलापी, तदन्तेवासिनो वैशंपायनान्तेवासिन एव भवन्ति, किं कलापिग्रहणेन ? तथा वैशंपायनान्तेवासी कठः, तदन्तेवासी खाडायनः, तस्य किं शौनकादिषु पाठेन? तदेतत् प्रत्यक्षकारिग्रहणस्य लिङ्गम्। कलाप्यन्तेवासिभ्यस्तावत् — हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः। तौम्बुरविणः। औलपिनः। छगलिनो ढिनुकं ४.३.१०९ वक्ष्यति। वैशम्पायनान्तेवासिभ्यः — आलम्बिनः। पालङ्गिनः। कामलिनः। आर्चाभिनः। आरुणिनः। ताण्डिनः। श्यामायनिनः। कठाल् लुकं वक्ष्यति ४.३.१०७, कलापिनश्चाणम् ४.३.१०८

हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरु।

उलपेन चतुर्थेन कालापकमिहोच्यते॥

आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ।

ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयोऽपरे॥

श्यामायन उदीच्येषु उक्त ः कठकलापिनोः।

चरक इति वैशंपायनस्याख्या, तत्संबन्धेन सर्वे तदन्तेवासिनश्चरका इत्युच्यन्ते॥

Siddhanta Kaumudi

Up

कलाप्यन्तेवासिभ्यः, हरिद्गुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवानिभ्यः, आलम्बिनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कलापिवैशम्पायनान्तेवासिभ्यश्च>> - कलापि ।तेन प्राक्त॑मित्येव । कलापिशिष्यवाचिभ्यो, वैशम्पायनशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्य इति । 'उदाह्यियते' इति शेषः । हारिद्रविण इति । हरिद्रुर्नाम कलापिनः शिष्यः । ततः प्रोक्ते णिनिः ।ओर्गुणः॑ । आदिवृद्धिः । हरिद्रविन्शब्दादध्येत्रणःप्रोक्ताल्लु॑हिति लुगिति भावः । हरिद्रुः, छगली, तुम्बुरुः, उलप इति चत्वारः कलापिशिष्याः । तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते । औलपिनः । वैशम्पायनान्तेवासिभ्य इति । 'उदाह्यियते' इति शेषः । आलम्बिन इति । आलम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्डः, श्यामायनः, कठः, कलापी इति नव वैशम्पायशिष्याः । तत्र आलम्बिशब्दादध्येत्रणः प्रोक्ते णिनि । आलम्बिन्शब्दादध्येत्रणःप्रोक्ताल्लु॑गिति लुक् । आलम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः । अत्रआपत्यस्ये॑ति यलोपः । श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण्वक्ष्यते । वैशम्पायनशिष्यः कलापी । तता च कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात्तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम् ।

Padamanjari

Up

कलाप्यन्तेवासिनामित्यादि । सूत्रे त्वभेदोपचाराश्रयो निर्देशः । कलाप्यन्तेवासिनश्चत्वार इत्यादि । ननु च शिष्यशिष्येष्वपि शिष्यव्यवहारो लोके दृश्यते, तत्कथमियन्त एवेति नियमः ? तत्राहप्रत्यक्षकारिण इति । क्रियासामान्यवचनः करोतिः प्रकरणाअदिहाध्ययने वर्तते । कलापिखाण्डायनग्रहणादिति । एतदेव विवृणोति - तथा हीति । वैशम्पायनस्यान्तेवासी कलापी, यदि चान्तेवास्यन्तेवासिनोऽपि गृह्यएरन्, कलापिग्रहणमनर्थकम्,'वैशम्पायनान्तेवासिभ्यः' इत्येव सिद्धम् ; कलाप्यन्तेवासिनामपि वैशम्पायनान्तेवासित्वात् । तथा वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाण्डायनः, तत्र व्यवहितानामपि ग्रहणे वैशम्पायनान्तेवासित्वादनेनैव सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फलः स्यात् । उदाहरणेषु च्छन्दोब्राह्मणानीति तद्विषयता, अध्येतृप्रत्ययस्य'प्रोक्ताल्लुक्' इति लुक् । उलपेन चतुर्थेनेति । सहयोगे तृतीया । कलापिन इदं कालापकम्,'गोत्रचरणाद् वुञ्' । तत्र'धर्माम्नाययोः' इति पठ।ल्ते, तस्मादिहोपमानाच्छिष्यसमूहे प्रयोगः । आलम्बिश्चरकः प्राचामिति । आलम्बिर्नाम प्राचां देश उत्पन्नश्चरकस्य शिष्यः । एवं फलिङ्गकमलावुभौ प्राचामेव त्रय एते प्राच्या उक्ताः । कठकला पिनोरिति ।'कठचरकाल्लुक्' इति कठाल्लुगुक्तः । कलापिशब्दादपि'कलापिनो' ण्ऽ त्यणुक्तः ॥