4-3-103 काश्यपकौशिकाभ्याम् ऋषिभ्यां णिनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम्
काश्यपकौशिकशब्दाभ्यामृषिवाचिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। छस्यापवादः। णकार उत्तरत्र वृद्ध्यर्थः। कल्पस्ताभ्यां प्रोक्त इति स्मर्यते। तस्यापि च तद्विषयता भवत्येव,<<शौनकादिभ्यश्छन्दसि>> ४.३.१०६ इत्यत्रानुवृत्तेः, छन्दोऽधिकारविहितानां च तत्र तद्विषयतेष्यते। काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः। कौशिकिनः। ऋषिभ्यामिति किम् ? इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम्॥
काश्यपेन प्रोक्तमधीयते काश्यपिनः ॥
<<काश्यपकौशिकाभ्यामृषिभ्यां णिनिः>> - काश्यपिन इति । काश्यपशब्दाण्णिनिः । णकार इत् । नकारादिकार उच्चारणार्थः । काश्यपिन्शब्दात्प्रोक्ताल्लु॑गित्यध्येतृप्रत्ययस्याऽणो लुगिति भावः । एवं कोशिकिनः । ऋषिभ्यां किम् । इदानींतनेन काश्यपेन प्रोक्तं काश्यपीयम् ।
णकार उतरत्र वृद्ध्यर्थ इति । इह तु पूर्वमेव वृद्धे सिद्धत्वात् । योऽपि'वृद्धिनिमितस्य' इति पुंवद्भावप्रतिषेधः, सोऽपि न प्रयोजनम्, णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामवृतेः । वृतावपि'जातेश्च' इति सिद्धत्वात्, चरणत्वेन जातित्वात् । तस्यापि चेति । कथं च्छन्दोब्राह्मणानामुच्यमाना तद्विषयता कल्पस्य भवति ? तत्राह - शौनकादिभ्य इति । ननु च तत्रानुवृतौ सत्यामप्यस्य योगस्य न कल्पः च्छन्दो भवति, नापि ब्राह्मणम् ? अत आह - च्छन्दोऽधिकारविहितानां चेति ।'च्छन्दोब्राह्मणानि' इत्यत्र च्छन्दोग्रहणं स्वर्यते, तत्र स्वरितेनाधिकारावगतिर्भवतीति च्छन्दः प्रकरणमध्यपातिनोऽस्यापि णिनेस्तद्विषयता भवतीत्यर्थः । यतु'च्छन्दोब्राह्मणानि' इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कल्पादेस्तद्विषयत्वप्रतिपादनम्, तत्प्रकारान्तरं द्रष्टव्यम् । इदानीन्तनेन गोत्रकाश्यपेनेति । न ह्यसावृषिः; अमन्त्रदर्शित्वात् ॥