तित्तिरिवरतन्तुखण्डिकोखाच्छण्

4-3-102 तित्तिरिवरतन्तुखण्डिकोखात् छण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तित्तिर्यादिभ्यः शब्देभ्यश्छण् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। अणोऽपवादः। तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः। वारतन्तवीयाः। खाण्डिकीयाः। औखीयाः। छन्दसि चायमिष्यते, तित्तिरिणा प्रोक्तः श्लोक इत्यत्र न भवति, <<शौनकादिभ्यश्छन्दसि>> ४.३.१०६ इत्यत्रास्यानुवृत्तेः। छन्दोऽधिकारविहितानां च तद्विषयतेष्यते॥

Siddhanta Kaumudi

Up

छन्दोब्राह्मणानि -<{SK1278}> इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तित्तिरिवरतन्तुखण्डिकोखाच्छण्>> - तित्तिरिवरतन्तु । तेन प्रोक्त॑मित्येव । तित्तिरि, वरतन्तु, खण्डिक, उख-एभ्य उक्तविषये छण्स्यादित्यर्थः । इत आरभ्यतेनैकदि॑गितिपर्यन्तं प्रोक्ते वेदे भवन्ति,शौनकादिभ्यः छन्दसी॑ति छन्दोग्रहणस्य ततः पूर्व ततद उत्तरं चापकर्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्ययान्तानामेषां केवलानां न प्रयोगः, किंत्वध्येतृवेदितृप्र्तययशिरस्काणामेवेत्याह — छन्दोब्राआहृणानीति । तद्विषयतेति । अध्येतृवेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः । तैत्तिरीया इति । प्रोक्ते वेदे छण् । ईयः । तैत्तिरीयः=शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण् ।प्रोक्ताल्लु॑गिति तस्य लुगिति भावः । वारतन्तवीयाः । खाण्डिकीयाः । औखीयाः । तित्तिरिणा प्रोक्तः श्लोक॑ इत्यत्र तु न, छन्दसीत्यनुवृत्तेः । छन्दःशब्देन च कल्पसूत्राणामपि ग्रहणं, तेषां सर्वशाखागतविधिवाक्यसङ्ग्रहात्मकत्वात् । काश्यप ।तेन प्रोक्त॑मित्येव । छस्यापवादः ।

Padamanjari

Up