4-2-145 कृकणपर्णात् भारद्वाजे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः
index: 4.2.145 sutra: कृकणपर्णाद्भारद्वाजे
देशे इत्येव। भारद्वाजशब्दोऽपि देशवचन एव, न गोत्रशब्दः। प्रकृतिविशेषणम् च एतन्, न प्रत्ययार्थः। कृकणपर्णशब्दाभ्यां भारद्वाजदेशवाचिभ्यां छः प्रत्ययो भवति शैषिकः। कृकणीयम्। पर्णीयम्। भारद्वाजे इति किम्? कार्कणम्। पार्णम्। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः। चतुर्थाध्यायस्य तृतीयः पादः।
index: 4.2.145 sutra: कृकणपर्णाद्भारद्वाजे
भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥
index: 4.2.145 sutra: कृकणपर्णाद्भारद्वाजे
न गोत्रशब्द इति । कुत इत्याह - प्रकृतिविशेषणं चैतदिति । चशब्दो हिशब्दार्थे ॥