4-2-99 कापिश्याः ष्फक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
कापिशीशब्दात् ष्फक् प्रत्ययो भवति शैषिकः। षकारो ङीषर्थः। कापिशायनं मधु। कापिशायनी द्राक्षा॥ बाह्ल्युर्दिपर्दिभ्यश्चेति वक्तव्यम्॥ बाह्लायनी। और्दायनी। पार्दायनी॥
कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ॥
<<कापिश्याः ष्फक्>> - कापिश्याष्ष्फक् । कापिष्याः ष्फक् इति छेधः । कापिशीशब्दात् ष्फक् स्यादित्यर्थः । कापिशी नाम देशविशेषः । कापिशायनी द्राक्षेति । षित्त्वान्ङीष् ।
बहल्युदिपर्दीति । ठवृद्धादपिऽ इति वुञि प्राप्ते वचनम् ॥