रंकोरमनुष्येऽण् च

4-2-100 रङ्कोः अमनुष्ये अण् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ष्फक्

Kashika

Up

index: 4.2.100 sutra: रंकोरमनुष्येऽण् च


रङ्कुशब्दादण् प्रत्ययो भवति, चकारात् ष्फक् च शैषिकोऽमनुस्येऽभिधेये। राङ्कवो गौः, राङ्कवायणो गौः। अमनुस्ये इति किम्? राङ्कवको मनुस्यः। ननु च रङ्कुशब्दः कच्छादिषु पठ्यते, तत्र च मनुष्यतत्स्थयोर्वुञ् 4.2.134 इति मनुस्ये परत्वाद् वुञैव भवितव्यं, कच्छादिपाठादमनुस्ये अणपि सिद्धः, किम् इह मनुस्यप्रतिषेधेन अण्ग्रहणेन च? तदुच्यते, न एव अयम् मनुस्यप्रतिषेधः, किं तर्हि, नञिवयक्तन्यायेन मनुस्यसदृशे प्राणिनि प्रतिपत्तिः क्रियते। तेन राङ्कवः कम्बलः इति ष्फक् न भवति। विशेषविहितेन च ष्फका अणो बाधा मा भूतित्यण्ग्रहणमपि क्रियते।

Siddhanta Kaumudi

Up

index: 4.2.100 sutra: रंकोरमनुष्येऽण् च


चात् ष्फक् । राङ्कवो गौः । राङ्कवायणः । अमनुष्य इति किम् । राङ्कवको मनुष्यः ॥

Balamanorama

Up

index: 4.2.100 sutra: रंकोरमनुष्येऽण् च


रंकोरमनुष्येऽण् च - रङ्कोरमनुष्येऽण् च । रङ्कोरण् स्याच्चात्ष्फक् । राङ्कवो गौरिति । रङ्कुर्नाम देशविशेषः । तत्र जातादिरित्यर्थः । राङ्कवको मनुष्य इति । अत्र मनुष्यत्वान्न ष्फगणौ । किन्तुमनुष्यस्तत्स्थयो॑रिति वक्ष्यमाणो वुञ् । अकादेशः । राङ्कवो मनुष्य इति त्वपपाठः ।

Padamanjari

Up

index: 4.2.100 sutra: रंकोरमनुष्येऽण् च


रङ्कवो नाम जनपदः, ततः'प्राग्दीव्यतो' ण्ऽ प्राप्तः, तस्य ठवृद्धादपिऽ इति वुञ् बाधकः, तस्य ओर्देअशे ठञ्, ततः कोपधादण्, ततः'कच्छादिभ्यश्च' इत्यण् प्राप्तः, ततः ष्फगणौ विधीयेते । कोपधत्वादेवाणि सिद्धे रङ्कुशब्दस्य कच्छादिषु पाठो मनुष्यतत्स्थयोर्वुञ्विधानार्थः । मनुष्ये परत्वादिति । उत्कृष्टत्वाद् अपवादत्वादित्यर्थः । कच्छादिपाठारमनुष्येऽणपि सिद्ध इति । ननु च मनुष्यतत्स्थयोर्वुञ्विधानार्थस्तत्र पाठः स्यात्, ततश्च तद्व्यतिरिकते विषये ष्फगेव स्यात्, यत्राण् विधीयते ? नैतदस्ति; कच्छादिपाठस्योभयार्थत्वे बाधकाभावात् । नञिवयुक्तन्यायेन मनुष्यसदृशे प्राणिनि प्रतिपतिः क्रियते इति । यस्त्वमनुष्यशब्दो रक्षः पिशाचादिषु रूढः, न तस्यैव ग्रहणम् ; अनभिधानादिति मन्यते, अथैवं कस्मान्न विज्ञायते - परत्वादेव वुञि सिद्धे मनुष्यप्रतिषेधो ज्ञापयति -'मनुष्यतत्स्थयोः' इत्यस्याप्येतौ ष्फगणौ बाधकाविति, तेन तत्स्थे ष्फगणावेव भवतो न वुञिति ? तन्न; अनिष्टत्वात् । न हि तस्थे ष्फगणाविष्येते, किं तहि ? वुज्ञेव । राङ्कवः कम्बल इति ष्फग्न भवतीति । यथा तु वार्तिकं भाष्यं च तथात्र ष्फगिष्यते, मनुष्यप्रतिषएधश्च प्रत्याख्यातः । यथाऽऽह - रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोर्वुञ्विधानात्, तत्स्थे ष्फगणोर्ज्ञापकमिति चेन्नानिष्टत्वादण्ग्रहणानर्थक्यं च कच्छादिभ्योऽणिवधानात्ऽ इति । विशेषविहितेन च ष्फकेति । अन्यथा कच्छादिपाठस्य प्राणिनि चरितार्थत्वात्प्राणिनि ष्फगेव स्यात् ॥