4-2-98 दक्षिणापश्चात्पुरसः त्यक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.98 sutra: दक्षिणापश्चात्पुरसस्त्यक्
दक्षिणा पश्चात् पुरसित्येतेभ्यः त्यक् प्रत्ययो भवति शैषिकः। दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः।
index: 4.2.98 sutra: दक्षिणापश्चात्पुरसस्त्यक्
दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥
index: 4.2.98 sutra: दक्षिणापश्चात्पुरसस्त्यक्
दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः॥
index: 4.2.98 sutra: दक्षिणापश्चात्पुरसस्त्यक्
दक्षिणापश्चात्पुरसस्त्यक् - दक्षिणापश्चात् । आजन्तमव्ययमिति । अव्ययसाहचर्यादाजन्तं गृह्रत इति भावः । दक्षिणा, पश्चात्, पुरस्, एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः ।
index: 4.2.98 sutra: दक्षिणापश्चात्पुरसस्त्यक्
दक्षिणाशब्दः'दक्षिणादाच्' इत्याजन्तोऽव्ययं गृह्यते; पश्चात्पुरोभ्यां साहचर्यात् । तेन न टाबन्तस्य प्रवीणवाचिनो ग्रहणम् ॥