4-2-97 नद्यादिभ्यः ढक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
नदी इत्येवमादिभ्यो ढक् प्रत्ययो भवति। नादेयम्। माहेयम्। पूर्वनगरीशब्दोऽत्र पठ्यते। पौर्वनगरेयम्। केचित् तु पूर्वनगिरीति पठन्ति, विच्छिद्य च प्रत्ययं कुर्वन्ति। पौरेयम्। वानेयम्। गैरेयमिति। तदुभयमपि दर्शनं प्रमाणम्॥ नदी। मही। वाराणसी। श्रावस्ती। कौशाम्बी। नवकौशाम्बी। काशफरी। खादिरी। पूर्वनगरी। पावा। मावा। साल्वा। दार्वा। दाल्वा। वासेनकी। वडवाया वृषे (ग०सू० ९३)॥
नादेयम् । माहेयम् । वाराणसेयम् ॥
नादेयम्। माहेयम्। वाराणसेयम्॥
<<नद्यादिभ्यो ढक्>> - नद्यादिभ्यो ढक् । माहेयमिति । मही=भूमिः, तस्यां जातादीत्यर्थः । वाराणसेयमिति । वाराणस्यां जातादीत्यर्थः ।
गणे नदीति स्वरूपग्रहणम्, न संज्ञा; नद्याः मह्यादीनां पृथग्रहणात् । पौरेयमित्यादिषु पुरि भवम्, वने भवम्, गिरौ भवमिति विग्रहः । उभयमपि दर्शनं प्रमाणमिति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ॥