कत्र्यादिभ्यो ढकञ्

4-2-95 कत्र्यादिभ्यः ढकञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कत्रि इत्येवमादिभ्यो ढकञ् प्रत्ययो भवति। कात्रेयकः। औम्भेयकः॥ कत्रि। उम्भि। पुष्कर। पुष्कल। मोदन। कुम्भी। कुण्डिन। नगर। वञ्जी। भक्ति। माहिष्मती। चर्मण्वती। ग्राम। उख्या। कुड्याया यलोपश्च (ग० सू० ९२)। कत्र्यादिः॥

Siddhanta Kaumudi

Up

कुत्सितास्त्रयः कत्त्रयः । तत्र जातादिः कात्त्रेयकः । नाकरेयकः । ग्रामादित्यनुवृत्तेः ग्रामेयकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कत्त्र्यादिभ्यो ढकञ्>> - कत्र्यादिभ्यो । कत्रय इति । 'कुगतिप्रादयः' इति कुशब्दस्य समासः ।त्रौ चे॑ति कोः कदादेशः । कात्रेयक इति । ढकञ्, ञकारस्य एयादेशः ।लोपो व्यो॑रिति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः । तथाच ग्रामशब्दाड्ढकञपि लभ्यते इत्यर्थः ।

Padamanjari

Up

कात्त्रेयक इति । कुत्सितास्त्रयः कत्रय इति बहुव्रीहिर्वा । अस्मादेव निपातनात्कोः कद्भावः, तेन कद्भावे'त्रौ उपसंख्यानम्' इति न वक्तव्यं भवति । कुल्याया यलोपश्चेति । केचितु तृतीयं वर्णं लकारं पठन्ति, अन्ये तु डकारम् ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । अयं योगः शक्योऽवक्तुम् । कथम् ? कौलेयकः श्वा यदा कुलशब्दः श्वकुले वर्तते तदा तस्यापत्यमपि श्वैव भवति, तत्र ठपूर्वपदादन्यतरस्याम्ऽ इति ढकञा सिद्धम्; कुक्षिग्रीवाशब्दाभ्याम्'दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्' इति ढञि कृते आस्यलङ्कारयोस्स्वार्थिकः कन् भविष्यति ॥