4-2-94 ग्रामात् यखञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
ग्रामशब्दाद् य खञ् इत्येतौ प्रत्ययौ भवतः। ग्राम्यः। ग्रामीणः॥
ग्राम्यः । ग्रामीणः ॥
ग्राम्यः। ग्रामीणः॥
<<ग्रामाद्यखञौ>> - ग्रामाद्यखञौ । ग्राम्य इति । यप्रत्ययेयस्येति चे॑ति लोपः । ग्रामीण इति । खञ ईनादेशः, णत्वम् ।
ग्रामशब्दः कत्र्यादिषु पठ।ल्ते, तेन ढकञपि भवति ॥