राष्ट्रावारपाराद्घखौ

4-2-93 राष्ट्रावारपारात् घखौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

राष्ट्र अवारपार इत्येताभ्यां यथासंख्यं घखावित्येतौ प्रत्ययौ भवतः। राष्ट्रियः। अवारपारीणः॥ विगृहीतादपीष्यते॥ अवारीणः। पारीणः॥ विपरीताच्च॥ पारावारीणः। प्रकृतिविशेषोपादानमात्रेण तावत् प्रत्यया विधीयन्ते। तेषां तु जातादयोऽर्थाः समर्थविभक्तयश्च पुरस्ताद् वक्ष्यन्ते॥

Siddhanta Kaumudi

Up

आभ्यां क्रमाद्घखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः ।<!अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ अवारीणः । पारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥

Laghu Siddhanta Kaumudi

Up

आभ्यां क्रमाद् घखौ स्तः शेषे । राष्ट्रे जातादिः राष्ट्रियः । अवारपारीणः । <<सवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्>> (वार्त्तिकम्) । अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<राष्ट्रावारपाराद्घखौ>> - राष्ट्रावारपाराद्धखौ । आभ्यामिति । राष्ट्रशब्दादवारपारशब्दाच्चेत्यर्थः । राष्ट्रिय इति । राष्ट्रे जातः भव इत्यादिरर्थो यथायथं बोध्यः । धस्य इयः । अवारपारीण इति । खस्य ईनादेशः, णत्वम् ।अवारपारादविगृहीतादपीति । अवारशब्दात्पारशब्दाच्च पृथग्भूतदादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति । पाराऽवारशब्दादपीत्यर्थः । ननुसार्ष्टावारपारे॑त्यरभ्यविभाषा पूर्वाह्णाऽपराह्णाभ्या॑मित्यन्तैः सूत्रै राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेऽर्थे प्रत्यया विहिताः । तस्यापत्यमित्यादिवदर्थविशेषास्तु न निर्दिश्यन्ते, यत्किञ्चिद्विभक्त्यन्तेभ्यो राष्ट्रादिप्रकृतिविशेषेभ्यो घादयः टउटउलन्ताः प्रत्ययाः स्युः,समर्थानां प्रथमाद्वे॑त्थस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः । किंच 'तत्र जातः' इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः । तत्र प्रथमोच्चारितसप्तम्यन्तादितत्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः । तत्राह — इह प्रकृतीत्यादिना ।राष्ट्रावारे॑त्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनामर्थविशेषविभक्तिविशेषाकाङ्क्षायां, 'तत्र जातः' इत्यादि सूत्राणां च केवलमर्थविशेषणिर्देशपराणांसमर्थाना॑मिति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाकाङ्क्षायां परस्परमेकवाक्यत्वे सति तत्र जात इत्याद्यर्थेषु प्रथमोच्चारिततत्तद्विभक्त्यन्तेभ्यो राष्ट्रादिशब्देभ्यो घादयः ठ्युठ्युलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्राद्यन्याभ्यस्तु प्रकृतिभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव ।

Padamanjari

Up

विगृहीतादपीष्यते इति । सूत्रे तु संघातस्यैव ग्रहणम्; अन्यथा वैषम्यात्संख्यातानुदेशो न स्यात् । विपरीताच्चेति । इयमपीष्टिरेव ॥