शेषे

4-2-92 शेषे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शेष इत्यधिकारोऽयम्। यानित ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषेऽर्थे ते वेदितव्याः। उपयुक्तादन्यः शेषः। अपत्यादिभ्यश्चतुरर्थपर्यन्तेभ्योऽन्योऽर्थः शेषः। तस्येदंविशेषा ह्यपत्यसमूहादयः, तेषु घादयो मा भूवन्निति शेषाधिकारः क्रियते। किं च, सर्वेषु जातादिषु घादयो यथा स्युः, अनन्तरेणैवार्थादेशेन संबन्धित्वेन कृतार्थता मा विज्ञायीति साकल्यार्थं शेषवचनम्। वक्ष्यति — <<राष्ट्रावारपाराद् घखौ>> ४.२.९३ — राष्ट्रियः। अवारपारीणः। शेष इति लक्षणं चाधिकारश्च। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। दृषदि पिष्टा दार्षदाः सक्तवः। उलूखले क्षुण्णः औलूखलो यावकः। अश्वैरुह्यत आश्वो रथः। चतुर्भिरुह्यते चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्ष इति॥

Siddhanta Kaumudi

Up

अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राऽणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदिपिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यत आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । शेषे <{SK1312}> इति लक्षणं चाधिकारश्च । तस्य विकारः <{SK1514}> इत्यतः प्राक् शेषाधिकारः ॥

Laghu Siddhanta Kaumudi

Up

अपत्यादिचतुरर्थन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षिदाः सक्तवः । चतुर्भिरुह्यं चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । 'तस्य विकारः' इत्यतः प्राक् शेषाधिकारः ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शेषे>> - अथ शैषिकप्रकरणं निरूप्यते । शेषे । अणादय इति ।प्राग्दीव्यतोऽणित्यादिसाधारणाः प्रत्यया इत्यर्थः । वतुर्भिरिति । अआआदिभिरिति शेषः । चतुर्दश्यामिति । कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृशयन्ते इत्यागमः । लक्षणमिति.प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः । अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदं न सिध्येदिति भावः । अधिकारश्चेति । उत्तरसूत्रेष्वनुवृत्त्यर्थः, स्वरितत्वादिति भावः । अधिकारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति । नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणामपत्यादिचतुरथ्र्यन्तादन्यत्वस्य सिद्धत्वाच्छेषाधिकारो व्यर्थ इति वाच्यं,तस्येद॑मित्यादावपत्यादिचतुरथ्र्यन्तार्थानां ग्रहणाऽभावाय तदावश्यकत्वात् । नच प्रदर्शितेषु ग्रहणाद्यर्थेषुतस्येद॑मित्येव अणादिसिद्धेः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यं,शैषिकान्मतुवर्थीया॑दित्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदंत्वेन भासमानमपत्याद्यपि न शेषः,इदंविशेषा ह्रेते अपत्यं समूहो विकारो निवासः॑ इति भाष्यात् । प्रपञ्चितं चैतत्तस्यापत्य॑मित्यत्रतस्येदमित्यपत्येऽपीत्यादिश्लोकवार्तिकव्याख्यावसरे ।

Padamanjari

Up

अपयुक्तादन्यः शेष इति । शब्दार्थकथनमेतत् । तस्यैव प्रकंरणादागतं विशेषमाह - अपत्यादिभ्य इति । एते ह्यत्रोपयुक्ताः । चतुरर्थपर्यन्तेभ्य इति । चत्वारोऽर्थाः'तदस्मिन्नस्ति' इत्यादयः पर्यन्तो येषामिति विपदो बहुव्रीहिः । चातुरर्थ्यपर्यन्तेभ्य इति पाठे समाहारद्विगोश्चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । ये तु पठन्ति - चातुरर्थपर्यन्तेभ्य इति, ते प्रज्ञादेराकृतिगणत्वादणमिच्छन्ति । किमर्थं पुनः शेषवचनम् ? शेषे घादयो यथा स्युः, अपत्यादिषु मा भूवन् । चिरनिवृता अपत्यादयः ? चतुर्ष्वर्थेषु तर्हि मा भूवन् ; अन्यथा ठोरञ्ऽ इत्यादयः'नडादीनां कुक् च' इत्येवमन्ता यथा चतुरर्थेषु भवन्ति, तथा घादयोऽपि'विभाषाअ पूर्वाह्णाभ्याम्' इत्येवमन्तास्तत्रैव स्युः । न ह्यकस्मात्प्रकरणं विच्छिद्यते । निवर्तिष्यते तर्हि चतुर्ज्ञ्थाः ? अस्वरितत्वाल्लिङ्गाच्च, यदयमुत्करादिषु कांश्चिद् वृद्धान् शब्दान्पठति - आर्द्रका, शालेति; अन्यथा'वृद्धाच्छः' इत्येव सिद्धः स्यात् । स्वार्थे तर्हि घादयो मा भूवन् ? अनिर्दिष्टार्थत्वाद्धि स्वार्थ एवस्युः, नामी अनिर्दिष्टार्थाः । जातादिष्वर्थेषु घादयोऽनुवर्तिष्यन्ते ? यद्यनुवर्तन्ते या या परा प्रकृतिः तस्यास्तस्याः पूर्वः पूर्वः प्रत्ययः प्राप्नोति । नार्थनिर्देशं प्रति व्यग्रयोरन्योऽन्यमभिसम्बन्धो भवति । लिङ्गाच्च, यदयं क्कचिच्चकारेण प्रकृतं समुच्चिनोति रङ्कोरमनुष्येऽण् चऽ इति, तज्ज्ञापयति - न पूर्वः पूर्वः प्रत्ययः परस्याः परस्याः प्रकृतेर्भवतीति । अथ वा - लौकिकोऽधिकारोऽपेक्षालक्षणः । न च घादीनां प्रकृत्यन्तरापेक्षा, नापि ग्रामादीनां प्रत्ययान्तरापेक्षा, तस्मादप्रयोजनमेतत्स्वार्थे मा भूवन्निति । तदेव तर्हि प्रयोजनम् - अपत्यादिषु तर्हि मा भूवन्निति । ननु चोक्तम् - चिरनिवृता अपत्यादयश्चातुरर्थी च नापेक्ष्यत इति ? न ब्रूमोऽपत्यादीनामत्राभिसम्बन्ध इति, किं तर्हि ? तस्येदमित्यनेनापत्यादिष्वपि प्राप्नुवन्ति । कथम् ? इत्याह - तस्येदंविशेषा ह्यपत्यसमूहादय इति । यथा'तस्येदम्' इत्यनेन पाणिनीयाश्छात्रा इति छात्रादिषु विशेषेषु प्रत्ययो भवति, एवमपत्यादिष्वपि विशेषेषु घादयः स्युः; विशेषेषु सामान्यभावात् । ननु च विशेषशब्दसंनिधौ सामान्यशब्द उपातः, तत्र विशेषे पर्यवस्यति - कौण्डिन्यो ब्राह्मण इति, विशेषान्तरे वा - दधि ब्राह्मणेभ्यस्तक्रं कौण्डिन्यायेति । तत्रापत्यादिविशेषसन्निधावुपातं तस्येदमिति सामान्यम्, यद्यपत्यादिष्वेव पर्यवस्येत् सामान्योपादानं व्यर्थं स्यादिति विशेषान्तर एव पर्यवसास्यति । किञ्च यद्यपत्यादिष्वपि घादयः स्युः,'प्राग्दीव्यतो' ण्ऽ इत्यत्रैवाणादिभिः सह विधीयेरन्, लिङ्गाच्चापत्यादिषु घादयो न भविष्यन्ति, किं लिङ्गम् ?'फेश्च्छ च' इत्यत्र'फेर्वा' इत्येव ठग्विधानार्थं वक्तव्यम्, ठका मुक्ते'वृद्धाच्छः' इति तावच्छः सिद्धः, तदेव च्छविधानं ज्ञापनार्थम् - न ह्यपत्यादिषु घादयो भविष्यन्ति । तथा गोत्रचरणाद्वुञिति समूह इदमर्थान्तर्भूते वुञि सिद्धे'गोत्रोक्षोष्ट्र' इति पुनर्विधानमपि लिङ्गमस्यार्थस्य; तथा राजन्यादिभ्यो वुञ्ऽ इति राजन्यादिषु दैवयातशब्दः पठ।ल्ते, स च देवयातूनामपत्यानि दैवयातवा इति गोत्रप्रत्ययान्तः; तथाऽरीहणादिषु भास्त्रायणशब्दो गोत्रप्रत्ययान्तः पठ।ल्न्ते, तत्रापि'गोत्रचरणाद् वुञ्' इत्येव सिद्धः; तदेतैर्लिङ्गैरपत्यादिषु घादयो न भविष्यन्ति । तदेवमेतत्प्रयोजनं नोपपद्यत इति प्रयोजनान्तरमाह - किञ्चेति । असति हे शेषग्रहणे प्रथमेनैवार्थेन सम्बन्धमनुभवतां कृतार्थता विज्ञायेत, द्वितीयादिषु त्वर्थेषु'प्राग्दीव्यतः' इति विशिष्टावधिपरिच्छिन्नेष्वर्थेषु विधीयमाना अणादय एव स्युः, शेषशब्दस्तूपयुक्तादन्यतमान् जातादीनर्थान्वीशीकृत्य शक्नोत्यभिधातुमिति सर्वत्र घादयः सिध्यन्ति । अतः साकल्यार्थमपि विशेषवचनं कर्तव्यम् । लक्षणं चाधैकारश्चेति । तत्र'तस्येदम्' इत्येव चाक्षुषादयः सिध्यन्ति, पार्षदादयस्तु'संस्कृतं भक्षाः' इति तस्माल्लक्षणत्वं नातीवोपयुज्यते ॥