नडादीनां कुक् च

4-2-91 नडादीनां कुक् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नड इत्येवमादीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः। यथासंभवमर्थसंबन्धः। नडकीयम्। प्लक्षकीयम्॥ नड। प्लक्ष। बिल्व। वेणु। वेत्र। वेतस। तृण। इक्षु। काष्ठ। कपोत। क्रुञ्चाया ह्रस्वत्वं च (ग० सू० ९०)। तक्षन् नलोपश्च (ग० सू० ९१)॥

Siddhanta Kaumudi

Up

नडकीयम् । (गणसूत्रम् -) क्रुञ्चा ह्रस्वत्वं च ॥ क्रुञ्चकीयः ॥ (गणसूत्रम् -) तक्षन्नलोपश्च ॥ तक्षकीयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नडादीनां कुक् च>> - नडादीनां कुक्च । नडादिभ्यछः स्याच्चातुरर्थिकः, प्रकृतेः कुक्च । क्रुञ्चा ह्रस्वत्वं चेति । नडादिगणसूत्रम् । क्रुञ्चाशब्दाच्छः, प्रकृतेः कुक्, आकारस्य ह्रस्वश्च । क्रुञ्चकीय इति क्रुञ्चा अस्मिन्सन्तीत्यादिविग्रहः । तक्षन्नलोपश्च । इदमपि गमसूत्रम् । तक्षन्शब्दाच्छः कुक्, नकारस्य लोपश्च ।

Padamanjari

Up

तक्षन्नलोपश्चेति । यदि पुनरयं कुक् परादिः क्रियेत, नान्तस्य पदत्वात्सिद्धो नलोपः; किन्तु कुटि प्रत्ययादेरादेशानुपपतिः, च्छस्याप्रत्ययादित्वादीयादेशो न प्राप्नोति ॥