वरणादिभ्यश्च

4-2-82 वरणादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् लुप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वरण इत्येवमादिभ्य उत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य लुब् भवति। अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः। शृङ्गी। शाल्मलयः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति। कटुकबदर्या अदूरभवो ग्रामः कटुकबदरी। शिरीषाः। काञ्ची॥ वरणाः, पूर्वौ गोदौ। आलिङ्ग्यायन। पर्णी। शृङ्गी। शाल्मलयः। सदाण्वी। वणिकि। वणिक। जालपद। मथुरा। उज्जयिनी। गया। तक्षशिला। उरशा। आकृत्या॥

Siddhanta Kaumudi

Up

अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः ॥

Laghu Siddhanta Kaumudi

Up

अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वरणादिभ्यश्च>> - अथ प्रकृतमारभते — वरणादिभ्यश्च ।जनपदे लु॑बित्त्युत्तरमिदं सूत्रम् । वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप्स्यादित्यर्थः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह — अजनपदार्थ इति । वरणानामिति । वरणा नाम नदी काश्या उत्तरतः प्रसिद्धा । अवयवाभिप्रायं, पूजार्थ वा बहुवचनम् । वरणानामदूरभवं नगरं-वरणाः । अत्र लुप्तप्रत्ययान्तस्य वरणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्गं बहुवचनं च ।

Padamanjari

Up