4-2-83 शर्करायाः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् लुप्
शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब् भवति। वाग्रहणं किम्, यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते, तत्र पाठसामर्थ्यात् प्रत्ययस्य पक्षे श्रवणं भविष्यति? एवं तर्ह्येतज् ज्ञापयति — शर्कराशब्दादौत्सर्गिको भवति, तस्यायं विकल्पितो लुबिति। शर्करा। शार्करम्। गणपाठात् च श्रवणमुत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ, तदेवं षड् रूपाणि भवन्ति। शर्करा। शार्करम्। शर्करिकम्। शार्करकम्। शार्करिकम्। शर्करीयमिति॥
अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥
<<शर्कराया वा>> - शर्कराया वा ।लु॑बित्यनुवर्तते । प्रत्यासत्त्या चातुरर्थिकस्येति लभ्यते । तदाह — अस्मादिति ।
कुमुदादिष्विति । ऋश्याद्यनन्तरेषु । पाठसामर्थ्यादिति । नित्ये हि लुपि गणयोरस्य पाठोऽनर्थकः स्यात् । शकरेति । अणे लुप् । शार्करमिति । तस्यैव श्रवणम् । शर्करिकमिति । कुमुदादित्वाट्ठच् । शार्करकमिति । वराहादित्वात्कक्,'के' णःऽ इति ह्रस्वः । शार्करिकम्, शर्करीयमिति । उतरसूत्रेण ठक्छौ ॥