4-2-65 सूत्रात् च कोपधात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद प्रोक्तत् लुक्
सूत्रवाचिनः। ककारोपधादुत्पन्नस्य प्रत्ययस्य लुग् भवति। अप्रोक्तार्थ आरम्भः। पाणिनीयमष्टकं सूत्रम्, तदधीयते अष्टकाः पाणिनीयाः। दशका वैयाघ्रपदीयाः। त्रिकाः काशकृत्स्नाः॥ संख्याप्रकृतेरिति वक्तव्यम्॥ इह मा भूत् — महावार्तिकं सूत्रमधीते माहावार्तिकः। कालापकमधीते कालापकः। कोपधादिति किम् ? चतुष्टयमधीते चातुष्टयः॥
सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थं आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥
<<सूत्राच्च कोपधात्>> - सूत्राच्च को । ककारोपधादित्यनन्तरंपरस्ये॑ति शेषः । ननुप्रोक्ताल्लु॑गित्येव सिद्धे किमर्थमिदमित्यत आह — अप्रोक्तार्थ आरम्भ इति । अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति ।तदस्य परिमाण॑मित्यधिकारेसङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॑ इतिसङ्ख्याया अतिशदन्तायाः क॑न्निति च सूत्ररूपेऽर्थे कन् । अष्टका इति । अष्टकशब्दाध्येतृवेदितृप्रत्ययस्य नेन लुक्, कोपधात्सूत्रवाचिनः परत्वादिति भावः ।सह्ख्याप्रकृतिकादिति ।सूत्राच्च कोपधा॑दितिलुक्सङ्ख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः । माहावार्तिक इति । महावार्तिकं नाम सूत्रम् । तदधीते वेत्ति वा माहावार्तिकः । अत्र अणो न लुक् ।
अष्टकं सूत्रमिति । अष्टावध्यायाः परिमाणमस्य,'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति'संख्याया अतिशदन्तायाः कन्' । संख्याप्रकृतेरिति वक्तव्यमिति । संख्या प्रकृतिर्यस्य प्रत्ययस्य तदन्तात्कोपधादिति वक्तव्यमित्यर्थः । कालापकमधीते कालापक इति । कलापिना प्रोक्तमेधीयते कालापाः,'कलापिनो' ण्ऽ,'नान्तस्य टिलोपे सब्रह्मचारि' इत्यौपसंख्यानिकष्टिलोपः, ततः'तदधीते' इत्यण्, प्रोक्ताल्लुक् । कालापानामाम्नाय इति'गोत्रचरणाद् वुञ्' , कालापकम्, ततः'तदधीते' इत्यण्, तस्य लुग्न भवति । यदि स्याद् ञित्स्वरेणाद्यौदातत्वं स्यात्, लुगभावे त्वण एव स्वरो भवति, स्त्रियां च ङीब् भवति । चतुष्टय इति । चत्वारोऽवयवा अस्य'संख्याया अवयवे तयप्' ,'ह्रस्वातादौ तद्धिते' इति मूर्द्धन्यः ॥