प्रोक्ताल्लुक्

4-2-64 प्रोक्तत् लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रोक्तसहचरितः प्रत्ययः प्रोक्तः। प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोरुत्पन्नस्य लुग् भवति। पाणिनिना प्रोक्तं पाणिनीयम्, तदधीते पाणिनीयः। आपिशलः। स्त्रियां स्वरे च विशेषः। पाणिनीया ब्राह्मणी॥

Siddhanta Kaumudi

Up

प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । पणनं पणः । घञर्थे कविधानमिति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रोक्ताल्लुक्>> - अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमते-प्रोक्ताल्लुक् । प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः । अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते । तदाह — प्रोक्तार्थकेति । पण इति । स्तुरित्यर्थः । ननुहलश्चे॑ति घञि उपधावृद्धिः स्यादित्यत आह — घञर्ते इति । पणीति । 'अत इनिठनौ' इति मत्वर्थे इनिः । तस्येति । पणिनो गोत्रापत्येतस्यापत्य॑मित्यणि 'पाणिन' इति रूपमित्यर्थः । अत्र अणोऽपत्यत्वात्तस्मिन्परे 'इनण्यनपत्ये' इति प्रकृतिभावाऽभावाट्टिलोपे प्राप्ते ।

Padamanjari

Up

प्रोक्तसहचरित इति । अर्थस्य प्रोक्तत्वादर्थेन च प्रत्ययस्य पौर्वापर्यायोगान्मुख्यार्थासम्भवाद् गौणस्य ग्रहणमित्यर्थः । अपर आह - प्रोक्तशब्द इह स्वर्यते, तेन तदधिकारविहितः प्रत्ययो गृह्यत इति । यदि वा प्रोक्ते भवः प्रोक्त इति सौत्रोऽयमतद्धैतनिर्देशः । पाणिनीयमिति । ननु पणोऽस्यास्तीति पणी, तस्यापत्यं पाणिनः, पाणिनस्यापत्यं पणिनो युवा पाणिनिः, ततः'तेन प्रोक्तम्' इत्यर्थविवक्षायां'यूनि लुक्' इति इञो लुकि कृते प्रत्ययलक्षणेन ठिञश्चऽ इत्यण् प्राप्नोति ? नैष दोषः; ठिञश्चऽ इत्यत्र'कणावादिभ्यो गोत्रे' इत्यतः'गोत्रे' इत्यनुवर्तते, तेनेञं विशेषयिष्यामः - गोत्रे य इञ् विहितस्तदन्तादिति । तत्र च पारिभाषिकं गोत्रं गृह्यते, तेन यूनीञो न भविष्यति, ततो वृद्धाच्छः; आपिशलिशब्दाद् ठिञश्चऽ इत्यण्, उभयत्राध्येतृप्रत्ययस्य लुक् । नन्वत्र लुकि सति, असति वा तदेव रूपमिति नास्ति विशेषः ? तत्राह - स्त्रियां स्वरेच विसेष इति । असति लुकि स्त्रियाम्'टिड्ढाणञ्' इत्यादिना ङीप् स्यात्, अण्स्वरेणान्तोदातत्वं च । लुकि तु सति टाब् भवति, च्छस्वरेण मध्योदातत्वं च । आपिशले तु स्वरे नास्ति विशेषः, यथा तु लुकि सत्यपिशलेत्यत्र ङीब्न भवति, तथा ठनुपसर्जनाद्ऽ इत्यत्र प्रत्यपादि ॥