4-2-63 वसन्तादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद
वसन्त इत्येवमादिभ्यष्ठक् प्रत्ययो भवति तदधीते तद्वेदेत्येतस्मिन् विषये। अणोऽपवादः। वसन्तसहचरितोऽयं ग्रन्थो वसन्तः, तमधीते वासन्तिकः। वार्षिकः॥ वसन्त। वर्षाशरदम्। हेमन्त। शिशिर। प्रथम। गुण। चरम। अनुगुण। अपर्वन्। अथर्वन्॥
वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायन -<{SK1145}> इति सूत्रे निपातनाट्टिलोपो न ॥
<<वसन्तादिभ्यष्ठक्>> - वसन्तादिभ्यष्ठक् ।तदधीते तद्वेदे॑त्येव । वासन्तिक इति । वसन्तवर्णनपरो ग्रन्थो वसन्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति । अथर्वणा प्रोक्तो वेदो लक्षमया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्यऋषिभ्यो लुग्वक्तव्यः॑ इति वचनाल्लुक् । आथर्वणिक इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्क्याह — दाण्डिनायनेति । वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः ।
वसन्तसहचरित इति । यत्र वसन्तो वर्ण्यते यो वा वसन्तेऽध्येयः । वसन्तसाहचर्याताच्छद्यं लभते । उक्थादिष्वेते पठितव्याः, ते वा वसन्तादिषु ? तथा तु न कृतमित्येव । अथर्वन्शब्दोऽत्र पठ।ल्ते, स उपचारेण प्रोक्ते ग्रन्थे वर्तते । अथर्वणमधीते आथर्वणिकः,'दाण्डिनायनहास्तिनायन' इति निपातनात्'नस्तद्धिते' इति टिलोपाभावः ॥