अनुब्राह्मणादिनिः

4-2-62 अनुब्राह्मणात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनुब्राह्मणशब्दादिनिः प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन् विषये। अणोऽपवादः। ब्राह्मणसदृशोऽयं ग्रन्थोऽनुब्राह्मणम्। तदधीते अनुब्राह्मणी, अनुब्राह्मणिनौ, अनुब्राह्मणिनः। मत्वर्थेन <<अत इनिठनौ>> ५.२.११५ इतीनिना सिद्धम् ? तत्रैतस्माट् ठन्नपि प्राप्नोति। अनभिधानान्न भविष्यति ? अणो निवृत्त्यर्थं तर्हि वचनम्॥

Siddhanta Kaumudi

Up

तदधते तद्वेद <{SK1269}>इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । अत्वर्थीयेनैव सिद्धे अणबाधनार्थमिदम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अनुब्राह्मणादिनिः>> - अनुब्राआहृणादिनिः । सेषपूरणेन सूत्रं व्याचष्टे — तदधीते तद्वेदेत्यर्थे इति । इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथा च नकारस्योपदेशेऽन्त्यत्वाऽभावान्नेत्संज्ञा । ननु 'अत इनिठनौ' इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आह — अण्बाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदम् ।

Padamanjari

Up

ब्राह्मणासदृश इति ।'यथार्थे यदव्ययम्' इति सादृश्येऽव्ययीभावः । चोदयति - मत्वर्थ इति । परिहरति - तत्रैतस्मादिति । दूषयति - अनभिधानादिति । साक्षात्परिहारमाह - अणो निवृत्यर्थं तु वचनमिति । क्वचितु मत्वर्थ इत्यादि न पठ।ल्ते ॥