क्रमादिभ्यो वुन्

4-2-61 क्रमादिभ्यः वुन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्रम इत्येवमादिभ्यः शब्देभ्यो वुन् प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन् विषये। अणोऽपवादः। क्रमकः। पदकः॥ क्रम। पद। शिक्षा। मीमांसा। सामन्॥

Siddhanta Kaumudi

Up

क्रमकः । क्रम, पद, शिक्षा, मीमांसा, क्रमादिः ॥

Laghu Siddhanta Kaumudi

Up

क्रमकः । पदकः । शिक्षकः । मीमांसकः ॥ इति रक्ताद्यर्थकाः ॥ ३ ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्रमादिभ्यो वुन्>> - क्रमादिभ्यो वुन् ।तदधीते तद्वेद इत्यर्थे॑ इति शेषः । क्रमक इति । क्रममधीते वेत्ति वेत्यर्थः । क्रमादिगणं पठति-क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । 'पदकः॒॑मीमांसकः' इत्युदाहरणानि ।

Padamanjari

Up