4-2-60 क्रतूक्थादिसूत्रान्तात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद
क्रतुविशेषवाचिभ्य उक्थादिभ्यश्च सूत्रान्तात् च ठक् प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन् विषये। अणोऽपवादः। अग्निष्टोममधीते वेद वा आग्निष्टोमिकः। वाजपेयिकः। उक्थादिभ्यः — औक्थिकः। लौकायतिकः। सूत्रान्तात् — वार्तिकसूत्रिकः। सांग्रहसूत्रिकः। सूत्रान्तादकल्पादेरिष्यते। कल्पसूत्रमधीते काल्पसूत्रः। अणेव भवति। उक्थशब्दः केषुचिदेव सामसु रूढः। यज्ञायज्ञीयात् (कौ०सं०उत्तरा० १.६.१,२) परेण यानि गीयन्ते। न च तान्यधीयाने प्रत्यय इष्यते। किं तर्हि? सामलक्षण औक्थिक्ये वर्तमान उक्थशब्दः प्रत्ययमुत्पादयति। उक्थमधीत औक्थिकः। औक्थिक्यमधीत इत्यर्थः। औक्थिक्यशब्दाच्च प्रत्ययो न भवत्येव, अनभिधानात्। विद्यालक्षणकल्पान्तादिति वक्तव्यम्। वायसविद्यिकः। सार्पविद्यिकः। गौलक्षणिकः। आश्वलक्षणिकः। मातृकल्पिकः। पाराशरकल्पिकः। विद्या च नाङ्गक्षत्रधर्मसंसर्गत्रिपूर्वा। अङ्गविद्यामधीते, आङ्गविद्यः। क्षात्रविद्यः। धार्मविद्यः। सांसर्गविद्यः। त्रैविद्यः। आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठग् वक्तव्यः। आख्यानाख्यायिकयोरर्थग्रहणम्, इतिहासपुराणयोः स्वरूपग्रहणम्। यावक्रीतिकः। प्रैयङ्गविकः। वासवदत्तिकः। सौमनोत्तरिकः। ऐतिहासिकः। पौराणिकः। सर्वसादेर्द्विगोश्च लः। सर्ववेदः। सर्वतन्त्रः। सादेः — सवार्तिकः। ससंग्रहः। द्विगोः — द्विवेदः। पञ्चव्याकरणः। अनुसूर्लक्ष्यलक्षणे च। अनुसूर्नाम ग्रन्थः, तमधीत आनुसुकः। लाक्ष्यिकः। लाक्षणिकः। इकन् बहुलं पदोत्तरपदात्। पूर्वपदिकः। शतषष्टेः षिकन् पथो बहुलम्। शतपथिकः। शतपथिकी। षष्टिपथिकः। षष्टिपथिकी। बहुलग्रहणादणपि भवति। शातपथः। षाष्टिपथः॥ उक्थ। लोकायत। न्याय। न्यास। निमित्त। पुनरुक्त। निरुक्त। यज्ञ। चर्चा। धर्म। क्रमेतर। श्लक्ष्ण। संहिता। पद। क्रम। संघात। वृत्ति। संग्रह। गुणागुण। आयुर्वेद। सूत्रान्तादकल्पादेः (ग० सू० ८०)। विद्यालक्षणकल्पान्तात् (ग० सू० ८१)। विद्या चानङ्गक्षत्रधर्मसंसर्गत्रिपूर्वा (ग० सू० ८२) । आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठक् (ग० सू० ८३)। सर्वसादेर्द्विगोश्च लः (ग० सू० ८४)। अनुसूर्लक्ष्यलक्षणे च (ग०सू० ८५)। द्विपदी ज्योतिषि (ग०सू० ८६)। अनुपद। अनुकल्प। अनुगुण। इकन् बहुलं पदोत्तरपदात् (ग०सू० ८७)। शतषष्टेः षिकन् पथो बहुलम् (ग०सू० ८८)॥
क्रतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वद्येतरि । आग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषस्तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा । औक्थिकः ।<!मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते !> (वार्तिकम्) ॥ न्यायम्, नैयायिकः । वृत्तिम्, वार्तिकः । लोकायतम्, लौकायतिकः इत्यादि ।<!सूत्रान्तात्त्वकल्पादेरेवेष्यते !> (वार्तिकम्) ॥ सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः ।<!विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ वायसविद्यिकः । गौलक्षणकः । आश्वलक्षणिकः । पाराशरकल्पिकः ।<!अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम् !> (वार्तिकम्) ॥ आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या तामधीते वेद वा त्रैविद्यः ।<!आख्यानाख्यायिकेतिहासपुराणेभ्यश्च !> (वार्तिकम्) ॥ यवक्रीतमधिकृत्य कृतामाख्यानमुपचाराद्यवक्रीतं तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । अधिकृत्य कृते ग्रन्थे <{SK1467}> इत्यर्थे वृद्धाच्छः <{SK1337}> । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः ।<!सर्वादेः सादेश्च लुग्वक्तव्यः !> (वार्तिकम्) ॥ सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवार्तिकः । द्विगोर्लुक् <{SK1080}> इति लुक् । द्वितन्त्रः ।<!इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः !> (वार्तिकम्) ॥ पूर्वपदिकः । उत्तरपदिकः । शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी ॥
क्रतुविशेषवाचिभ्य इति । स्वरूपस्य तु ग्रहणं न भवति, यदि स्यादुक्थादिष्वेव पठेत् । क्रतुसामान्यवाचिनामपि सोभयागादीनां पर्यायाणां न भवति; उक्थादिषु यज्ञशब्दस्य पाठात् । तस्माद्विशेषवाचिनामेव ग्रहणं तेभ्यो मुख्यार्थवृत्तिभ्यो वेदितरि प्रत्ययः, तत्प्रतिपादनपरग्रन्थवृत्तिभ्यस्त्वध्येतरि । वार्तिकसूत्रिक इति । वृतौ साधु वार्तिकम्'कथादिभ्यष्टक्' । वार्तिकं च तत्सूत्रं चेति कर्मधारयात्प्रत्ययः । एवं सांग्रहसूत्रिक इति । कल्पसूत्रमिति कर्मधारयः, समाहारद्वन्द्वो वा । यज्ञायज्ञीयात्परेणेति । एनपा योगे पञ्चमी चिन्त्या, एनबपि परशब्दात्पाक्षिकः, यदा तद्विधौ ठुतराधरदक्षिणादातिःऽ इति नानुवर्तते, दिक्शब्देभ्य इत्येवानुवर्तते । न च तान्यधीयाने प्रत्यय इष्यत इति । ठग्, अण् - च प्रत्ययद्वयमपि नेष्यते, तेनोक्थान्यधीयत इति वाक्यमेव भवति । अत्र च अभिधानमेव शरणम्, सामलक्षणं प्रातिशाख्यम् । औक्थिक्य इति । औक्थिकानामान्नायः, इदमर्थे'च्छन्दोगौक्थिक' इति ञ्यः । औक्थिक्यशब्दाच्च प्रत्ययो न भवतीति । अण्प्रत्यय इत्यर्थः, इदं प्रसङ्गादुक्तम् । सूत्रान्तादिति । अत्यल्पमिदमुच्यत इत्याह - विद्यालक्षणकल्पसूत्रान्तादिति वक्तव्यमिति । विद्या चेत्यादिवाक्येनातिप्रसक्तस्यापवादः । अङ्गादिपूर्वो विद्याशब्दः प्रत्ययं नोत्पादयतीत्यर्थः । त्रैविद्य इति । त्र्यवयवा विद्या त्रिविद्या, तामधीते त्रैविद्यः । तिस्रो विद्या अधीत इति तु विग्रहे'द्विगोर्लुगनपत्ये' इति लुक्प्रसङ्गः । यावक्रीतिक इति । यवक्रीतमधिकृत्य कृतमाख्यानं यवक्रीतशब्देनोच्यते, एवं प्रैयङ्गवमधिकृत्य कृतमुपचारात्प्रैयङ्गवमुच्यते । वासवदतिक इति । वासवदतामधिकृत्य कृता आख्यायिका, ठधिकृत्य कृते ग्रन्थेऽ इत्यत्रार्थे'वृद्धाच्छः' , तस्य'लुबाख्यायिकाभ्यो बहुलम्' इति लुप्, ततोऽनेन ठक् । एवं सौमनोतरिकः, ऐतिहासिक इति । इति हासीदिति यत्रोच्यते स इतिहासः, पृषोदरादित्वात्साधुः । सर्वसादेरिति । सर्वादेः, सादेर्द्विगोश्चोत्पन्नस्य पत्ययस्य लो भवति लुग्भवतीत्यर्थः, अर्थवतः सशब्दस्य ग्रहणात्सर्वशब्दः पृथगुपातः,'द्विगोश्च' इत्यनेन'द्विगोर्लुगनपत्ये' इत्ययमेव लुक् स्मारितः । सर्ववेद इति । सर्ववेदानधीते इत्यणो लुक् । सवार्तिक इति । वर्तिकान्तमधीते इति अन्तवचने सहशब्दस्याव्ययीभावः, ठव्ययीभावे चाकालेऽ इति सभावः, ततोऽणो लुक् । अनुसूरिति । अनुसूशब्दष्ठकमुत्पादयति, लक्ष्यलक्षणशब्दौ चेत्यर्थः । आनुसुक इति । अनुसूमधीत इति ठक्, तस्य ठिसुसुक्तन्तात्कःऽ इति कादेशः,'के' णःऽ इति ह्रस्वः । पदोतरपादिति । पदशब्द उतरपदं यस्य स तथोक्तः, पूर्वपदमधीते पूर्वपदिकः । एवमुतरपदिकः । शतषष्टेरिति । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तदन्तात् षिकन् भवति । षकारो ङीषर्थः ॥