घञः साऽस्यां क्रियेति ञः

4-2-58 घञः सा अस्यां क्रिया इति ञः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सेति समर्थविभक्तिः। अस्यामिति प्रत्ययार्थः स्त्रीलिङ्गः। क्रियेति प्रकृत्यर्थविशेषणम्। घञ इति प्रकृतिनिर्देशः। इतिकरणो विवक्षार्थः। घञन्तात् क्रियावाचिनः प्रथमासमर्थादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञः प्रत्ययो भवति। घञ इति कृद्ग्रहणम्, तत्र गतिकारकपूर्वमपि गृह्यते। श्येनपातोऽस्यां वर्तते श्यैनंपाता। तैलंपाता। घञ इति किम्? श्येनपतनमस्यां वर्तते। क्रियेति किम्? प्राकारोऽस्यां वर्तते। अथ समर्थविभक्तिः प्रत्ययार्थश्च कस्मात् पुनरुपादीयते, यावता द्वयमपि प्रकृतमेव? क्रीडायामित्यनेन तत् संबद्धम्, अतस्तदनुवृत्तौ क्रीडानुवृत्तिरपि संभाव्येत। सामान्येन चेदं विधानम्। दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः। मौसलपाता तिथिः॥

Siddhanta Kaumudi

Up

घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञप्रत्ययः स्यात् । घञ इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<घञः साऽस्यां क्रियेति ञः>> - घञः सास्याम् । अस्यामित्यनन्तरंमृगयाया॑मित्यादि स्त्रीलिङ्गं विशेष्यमध्याहार्यम् । सा क्रिया अस्यां मृगयादिक्रियायामित्यर्थे घञन्तप्रकृतिकप्रथमान्तात्क्रियावाचिनो ञः स्यादित्यर्थः । फलितमाह — घञन्तादित्यादिना । कृद्ग्रहणादिति । तत्प्रयोजनमनुपदमेव वक्ष्यते ।

Padamanjari

Up

अस्यामिति प्रत्ययार्थः स्त्रीलिङ्ग इति । तेन लिङ्गस्य विवक्षितत्वं दर्शयति । घञन्तात्क्रियावाचिन इति । भावे यो घञ् तदन्तादित्यर्थः । श्यैनम्पातेति । पतनं पातः, श्येनानां पात इति कर्तरि षष्ठयाः समासः, ततो ञः,'श्येनतिलस्य पाते ञः' इति मुम् । प्राकार इति । द्रव्यवचनोऽयं कर्मणि घञन्तः, ठुपसर्गस्य घञ्यमनुष्ये बहुलम्ऽ इति प्रशब्दस्यदीर्घत्वम् । सामान्येन चेदं विधानमिति । एतदेवोदाहरणेन द्रढयात - दणाडपात इति ॥