विभाषाऽमनुष्ये

4-2-144 विभाषा अमनुष्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः पर्वतात् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पर्वतशब्दाच् छः प्रत्ययो भवति वामनुष्ये वाच्ये। पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। पर्वतीयानि फलानि, पार्वतानि फलानि। पर्वतीयमुदकम्, पार्वतमुदकम्। अमनुष्य इति किम्? पर्वतीयो मनुष्यः॥

Siddhanta Kaumudi

Up

मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात्पक्षेऽण् । पर्वतीयानि पार्वतीनि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषाऽमनुष्ये>> - पक्षेऽणिति । अत्यतरस्यांग्रहणादिति भावः । अत्रयुष्मदस्मदो॑रिति योगो विभज्यते । आभ्यां छो भवतीत्यर्थः । 'खञ् च' इति योगान्तरम् । आभ्यां खञ् च भवतीत्यर्थः ।अन्यतरस्या॑मिति योगान्तरम् । आभ्यां छखञौ वा स्तः, पक्षेऽणित्यर्थः । अतो न यथासह्ख्यामिति भाष्ये स्पष्टम् ।

Padamanjari

Up

यद्यत्र नञः प्रश्लेषो न स्यादसन्देहार्थम्'मनुष्ये विभाषा इत्येव ब्रूयात्, लाघवे विशेषाभावादिति मत्वा' ऽह - अमनुष्येऽभिधेय इति । अमनुष्यशब्दो यौगिकोऽत्र गृह्यते, न तु रक्षः पिशाचादिषु रूढ इति दर्शयत्युदाहरणेन पर्वतीयानि फलानीति ॥