4-2-143 पर्वतात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः
पर्वतशब्दाच् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। पर्वतीयो राजा। पर्वतीयः पुरुषः॥
पर्वतीयः ॥
<<पर्वताच्च>> - पर्वताच्च — इत्यादि स्पष्टम् ।