कन्थापलदनगरग्रामहृदोत्तरपदात्

4-2-142 कन्थापलदनगरग्रामह्रदोत्तरपदात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः वृद्धात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

देश इत्येव, वृद्धादिति च । कन्थाद्युत्तरपदाद् देशवाचिनो वृद्धात् प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। वाहीकग्रामादिलक्षणस्य प्रत्ययस्यापवादः। दाक्षिकन्थीयम्। माहिकिकन्थीयम्। दाक्षिपलदीयम्। माहिकिपलदीयम्। दाक्षिनगरीयम्। माहिकिनगरीयम्। दाक्षिग्रामीयम्। माहिकिग्रामीयम्। दाक्षिह्रदीयम्। माहिकिह्रदीयम्॥

Siddhanta Kaumudi

Up

कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छः स्यात् । ठञ् ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिहृदीयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कन्थापलदनगरग्रामहृदोत्तरपदात्>> - कन्थापलद । ठञ्ञिठादेरपवाद इति । नगरान्तेरोपधेतो॑रिति वुञोऽपवादः । इतरत्रबाहीकग्रामेभ्यश्चे॑ति ठञ्ञिठयोरपवाद इति विवेकः ।

Padamanjari

Up

अन्तग्रहणेनैव सिद्धम्, नार्थ उतरपदग्रहणेन । न च बहुच्पूर्वे प्रसङ्गः,'प्राचां देशे' इत्यधिकारात् ॥