वृद्धादकेकान्तखोपधात्

4-2-141 वृद्धात् अकेकान्तखोपधात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

देश इत्येव। वृद्धाद् देशवाचिनोऽक इक इत्येवमन्तात् खकारोपधात् च प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। कोपधलक्षणस्याणोऽपवादः, वाहीकग्रामलक्षणस्य च प्रत्ययस्य, <<रोपधेतोः प्राचाम्>> ४.२.१२३ इति च। अकान्तात् तावत् — आरीहणकीयम्। द्रौघणकीयम्। इकान्तात् — आश्वपथिकीयम्। शाल्मलिकीयम्। खोपधात् — कौटिशिखीयम्। आयोमुखीयम्॥ अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम्॥ सौसुकीयम्। मौसुकीयम्। ऐन्द्रवेणुकीयम्॥

Siddhanta Kaumudi

Up

अक इक एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनश्छः स्यात् । ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनस्तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वृद्धादकेकान्तखोपधात्>> - वृद्धादकेकान्तखोपधात् । ब्राआहृणकीय इति । कोपधाऽणोऽपवादश्छः । शाल्मलिकीय इति । शाल्मलिको नाम देशः । तत्र भव इत्यर्थः । इकान्तोदाहरणमिदम् । कोपधाऽणपवादः । अयोमुखीय इति ।बाहीकग्रामेभ्यश्चे॑ति ठञ्ञिठयोरपवादश्छः ।

Padamanjari

Up

आरीहणकीयम्, द्रौहणकीयमिति ।'तेन निर्वृतम्' इत्यत्रार्थे वुञ्च्छणादिसूत्रेण यो वुञ् तदन्ताभ्यां प्रत्ययः, उदाहरणदिक्चेयमकान्तस्य दर्शिता ।'वृद्धाच्छः' इत्येव ह्यत्र चः सिद्धः, न ह्यएतौ जनपदवाचिनौ, येन कोपधादणः प्रसङ्गः स्यात् । इदं त्वत्रोदाहरणं द्रष्टव्यम् - ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनः'ब्राह्मणकोष्णिके संज्ञायाम्' इति निपातनात् साधुः, तत्र जातो ब्राह्मणकीय इति । अकेकान्तग्रहणे कोपधग्रहणमिति । सूत्रेऽकेकान्तग्रहणमपनीय कोपधादिति वक्तव्यम्, व्यापकत्वाल्लघुत्वाच्चेत्यर्थः ॥