राज्ञः क च

4-2-140 राज्ञः क च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

असंभवाद् देशाधिकारो न विशेषणम्। राज्ञःककारश्चान्तादेशो भवति छश्च प्रत्ययः। राजकीयम्। आदेशमात्रमिह विधेयम्, प्रत्ययस्तु <<वृद्धाच्छः>>४.२.११४ इत्येव सिद्धः॥

Siddhanta Kaumudi

Up

वृद्धत्वाच्छे सिद्धे तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<राज्ञः क च>> - राज्ञः क च । राजन्शब्दाच्छः स्यात्, ककारश्चान्तादेशः ।

Padamanjari

Up