गहादिभ्यश्च

4-2-138 गहादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गह इत्येवमादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति शैषिकः। अणादेरपवादः। गहीयः। अन्तःस्थीयः। देशाधिकारेऽपि संभवापेक्षं विशेषणम्, न सर्वेषाम्। मध्य मध्यमं चाण् चरण इति पठ्यते, तस्यायमर्थः। मध्यशब्दः प्रत्ययसन्नियोगेन मध्यममापद्यते। मध्यमीयाः। चरणे तु प्रत्ययार्थेऽण् भवति माध्यमा इति। तदेतद् विशेष एव स्मर्यते — पृथिवीमध्यस्य मध्यमभावः, चरणसंबन्धेन निवासलक्षणोऽणिति च। मुखपार्श्वतसोर्लोपश्च। मुखतीयम्। पार्श्वतीयम्। कुग् जनस्य परस्य च। जनकीयम्। परकीयम्। देवस्य चेति वक्तव्यम्। देवकीयम्। वेणुकादिभ्यश्छण् वक्तव्यः। आकृतिगणोऽयम्। वैणुकीयम्। वैत्रकीयम्। औत्तरपदकीयम्। प्रास्थकीयम्। माध्यमकीयम्॥ गह। अन्तःस्थ। सम। विषम। मध्य मध्यमं चाण् चरणे (ग०सू०९७)। उत्तम। अङ्ग। वङ्ग। मगध। पूर्वपक्ष। अपरपक्ष। अधमशाख। उत्तमशाख। समानशाख। एकग्राम। एकवृक्ष। एकपलाश। इष्वग्र। इष्वनी। अवस्यन्दी। कामप्रस्थ। खाडायनि। कावेरणि। शैशिरि। शौङ्गि। आसुरि। आहिंसि। आमित्रि। व्याडि। वैदजि। भौजि। आढ्यश्वि। आनृशंसि। सौवि। पारकि। अग्निशर्मन्। देवशर्मन्। श्रौति। आरटकि। वाल्मीकि। क्षेमवृद्धिन्। उत्तर। अन्तर। मुखपार्श्वतसोर्लोपः (ग०सू०९८)। जनपरयोः कुक् च (ग०सू०९९)। देवस्य च (ग०सू०१००)। वेणुकादिभ्यश्छण् (ग०सू०१०१)। गहादिः॥

Siddhanta Kaumudi

Up

छः स्यात् । गहीयः ॥ (गणसूत्रम् -) मुखपार्श्वतसोर्लोपश्च ॥ मुखतीयम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् ॥ (गणसूत्रम् -) कुग्जनस्य परस्य च ॥ जनकीयम् । परकीयम् ॥ (गणसूत्रम् -) देवस्य च ॥ देवकीयम् ॥ (गणसूत्रम् -) स्वस्य च ॥ स्वकीयम् ॥ (गणसूत्रम् -) वेणुकादिभ्यश्छण्वाच्यः ॥ वैणुकीयम् । वैत्रकीयम् ॥ औत्तरपदकीयम् ॥

Laghu Siddhanta Kaumudi

Up

गहीयः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गहादिभ्यश्च>> - गहादिभ्यश्च । गहीय इति । गहो देश विशेषः । मुखपार्ोति । गहादिगणसूत्रम् ।मुखपार्ो॑ति लुप्तषष्ठीकं पदम् । तसन्तयोरेतयोरन्त्यस्य लोपश्च । चाच्छः । असम्भवादत्र जनपदस्येति न सम्बध्यते । कुग्जनस्येति । गणसूत्रमिदम् । जनशब्दस्य परशब्दस्य च कुगागमः स्यात् । चाच्छः । अत्रापि देश इति न सम्बध्यते । देवस्य च । इदमपि गणसूत्रम् चात्कुक्छश्च । 'देवाद्यञञौ' इत्यस्यापवादः । 'दैवानुग्रह' इति भाष्यप्रयोगाद्दैवमित्यपि साधु । स्वकीयमिति । गहादित्वाच्छः, कुक्च । स्वशब्दोऽपि गहादिः, आगमशास्त्रस्याऽनित्यत्वात्स्वीयम् ।

Padamanjari

Up

अणादेरपवाद इति । तत्र माहकिप्रस्थशब्दात्'प्रस्थपुरबवन्ताच्च' इति वुञोऽपवादः, वाल्मीकिप्रभृतिभ्य इञन्तेभ्यः ठिञश्चऽ इत्यणः, शेषेभ्य औत्सर्गिकस्याणः । सम्भवापेक्षमिति । येषां देशे चादेशे च वृत्तिः सम्भवति गहादीनां तेषामेव विशेषणम्, न त्वन्तस्थपूर्वपदादीनामित्यर्थः । पृथिवीमध्यस्येति । पृथिवीमध्यवाच्येव मध्यशब्दो ग्राह्यः, न मध्यान्तरवाचीत्यर्थः । चरणसम्बन्धेन निवासलक्षणोऽणिति । चरणसम्बन्धेन योऽण्विधीयतेऽण् चरण इत्यनेन स निवासलक्षणौ द्रष्टव्यः ।'सो' यं निवासःऽ इत्यज्ञैवार्थे भवतीत्यर्थः, तेन पृथिवीमध्यं निवास एषां कठादीनां चरणानामित्यत्रार्थे मध्यमा इति भवति । मुखपार्श्वतसोर्लोप इति । मुखपार्श्वशब्दयोस्तसन्तयोः प्रत्ययसन्नियोगेन लोपो भवति, स च ठलोऽन्त्यस्यऽ, तत्र कृते यस्येति लोपः, लोपवचनम्, ठव्ययानां भमात्रे टिलोपःऽ इत्यस्यानित्यत्वज्ञापनार्थम्, तेनारातीय इति सिद्धं भवति ॥