4-2-137 गर्तोत्तरपदात् छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
देश इत्येव। गर्तोत्तरपदाद् देशवाचिनः प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद् बाधते। वृकगर्तीयम्। शृगालगर्तीयम्। श्वाविद्गर्तीयम्। उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम्। बाहुगर्तम्॥
देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् ॥
<<गर्तोत्तरपदाच्छः>> - गर्तोत्तरपदाच्छः । देशे इति । शेषपूरणम् । देशवाचिन इति यावत् । वृकगर्तीयमिति । वृकगर्तो नाम देशः । तत्र भव इत्यर्थः । ननु गर्ताच्छ इत्येतावतैव केवलगर्तशब्दस्य देशवाचित्वाऽभावाद्गर्तोत्तरपदादिति सिद्धे उत्तरपदग्रहणं व्यर्थमित्यत आह — उत्तरपदग्रहणमिति ।
वाहीकग्रामलक्षणमिति । यद्यपि'वाहीकग्रामेभ्यश्च' इति ठञ्ञिठौ विहितौ, तथाप्युत्सृष्टानुबन्धयोस्तयोष्ठरूपाविशेषाद्वाहीकग्रामलक्षणमित्येकवचननिर्देशः । श्वाविद्गर्तीयमिति । श्वानं विध्यतीति व्यधेः क्विप्, सम्प्रसारणम्,'नहिवृत्ति' इति दीर्घः, श्वाविधां गर्तः श्वाविद्गर्तः ॥