अपदातौ साल्वात्

4-2-135 अपदातौ साल्वात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् मनुष्यतत्स्थयोः वुञ्

Kashika

Up

index: 4.2.135 sutra: अपदातौ साल्वात्


साल्वशब्दः कच्छादिसु पठ्यते, ततः पूर्वेण एव मनुस्यतत्स्थयोः वुञि सिद्धे नियमार्थं वचनम्। अपदातावेव मनुस्ये मनष्यस्थे च साल्वशब्दाद् वुञ् प्रत्ययो भवति। साल्वको मनुस्यः। सल्वकमस्य हसितम्, जल्पितम्। अपदातौ इति किम्? साल्वः पदातिर्व्रजति।

Siddhanta Kaumudi

Up

index: 4.2.135 sutra: अपदातौ साल्वात्


साल्वशब्दस्य कच्छादित्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । अपदातौ किम् । साल्वः पदातिर्व्रजति ॥

Balamanorama

Up

index: 4.2.135 sutra: अपदातौ साल्वात्


अपदातौ साल्वात् - अपदातौ साल्वात् । नियमार्थमिति ।साल्वाच्चेदपदातावेवेति नियमार्थमित्यर्थः ।

Padamanjari

Up

index: 4.2.135 sutra: अपदातौ साल्वात्


पादाभ्यामततीति'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः, न पदातिरपदातिः । अपदातिःउअश्वरोहादिः । अपदातावेव मनुष्ये तत्स्थे चेति । द्वन्द्वनिर्दिष्टत्वेन तत्स्थे चेत्युक्म्, न तु तत्स्थस्य पदातेः सम्भवोऽस्ति । अपदातौ साल्वादेवेत्येष तु विपरीतनियमो न भवति;'गोयवाग्वोश्च' इत्यारम्भात् ॥