मनुष्यतत्स्थयोर्वुञ्

4-2-134 मनुष्यतत्स्थयोः वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कच्छादिभ्यः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कच्छादिभ्य इत्येव। मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छादिभ्यो वुञ् प्रत्ययो भवति। अणोऽपवादः। काच्छको मनुष्यः। काच्छकमस्य हसितम्, जल्पितम्। काच्छिका चूडा। सैन्धवको मनुष्यः। सैन्धवकमस्य हसितम्, जल्पितम्। सैन्धविका चूडा। मनुष्यतत्स्थयोरिति किम्? काच्छो गौः। सैन्धवः। वार्णवः॥

Siddhanta Kaumudi

Up

कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । कच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मनुष्यतत्स्थयोर्वुञ्>> - मनुष्यतत्स्थयोर्वुञ् । कच्छादिभ्य इत्यनुवर्तते । तदाह — कच्छादीति ।

Padamanjari

Up