4-2-133 कच्छादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अण्
देश इत्येव। कच्छ इत्येवमादिभ्यो देशवाचिभ्योऽण् प्रत्ययो भवति शैषिकः। वुञादेरपवादः। काच्छः। सैन्धवः। वार्णवः। कच्छशब्दो न बहुवचनविषयः, तस्य मनुष्यतत्स्थयोर्वुञर्थः४.२.१३४ पाठः। विजापकशब्दः पठ्यते। तस्य कोपधत्वाद् ४.२.१३२ एवाणि सिद्ध इह ग्रहणमुत्तरार्थम्॥ कच्छ। सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। कुरु। रङ्कु। अणु। खण्ड। द्वीप। अनूप। अजवाह। विजापक। कुलून। कच्छादिः॥
देशवाचिभ्योऽण् । वुञादेरपवादः । काच्छः । सैन्धवः ॥
<<कच्छादिभ्यश्च>> - कच्छादिभ्यश्च । काच्छ इति । अत्र वुञोऽपवादोऽण् । सैन्धव इति । #ओर्देशे ठञोऽपवादः ।
वुञोदेरपवाद इति । ये जनपदवाचिनो बहुवचनविषयाः, तेभ्यो वुञोऽपवादः, सिन्धुवर्णुशब्दाभ्यामोर्देअशे ठञः । साल्वशब्दः पठ।ल्ते - जनपदलक्षणो वुञ्मा भूदिति । ठपदातौ साल्वात्ऽ'गोयवाग्वोश्च' इति नियमार्थं भविष्यति - अपदातावेव गोयवाग्वोरेवेति, वृद्धत्वाच्छः प्राप्नोति ॥