4-2-132 कोपधात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
देश इत्येव। ककारोपधात् प्रातिपदिकादण् प्रत्ययो भवति शैषिकः। जनपदवुञोऽपवादः। अन्यत्र जनपदं मुक्त्वा पूर्वेण४.२.११० एव कोपधादणि सिद्धम्। ऋषिकेषु जातः, आर्षिकः। माहिषिकः। अण्ग्रहणमुवर्णान्तादपि यथा स्यात्। इक्ष्वाकुषु जात ऐक्ष्वाकः॥
माहिषिकः ॥
<<कोपधादण्>> - कोपधादण् । माहिषिक इति । महिषिको नाम जनपदः, तत्र भव इत्यर्थः ।प्रस्थोत्तरपदे॑त्यादिना सिद्धे जनपदवुञ्बाधनार्थमिदम् ।
किं पुनरदेशवाचिनोऽयं नेष्यते यतो देशग्रहणमनुवर्तते ? इत्यत आह - अन्यत्रेति । पूर्वेण, प्रस्थोतरपदादिसूत्रेण, एवं चोतरार्थं देशानुवृत्तिः न त्वदेशनिवृत्यर्था । नन्वदेशवाचिनः प्राग्दीव्यतीय एवाण् सिद्धः, प्रस्थोतरपदादिसूत्रं तु उदीच्यग्रामलक्षणाञो बाधनार्थम्, तत्किमुच्यते - अन्यत्र पूर्वेणैवेति, सत्यम् ; सति त्वेवमर्थे तस्यारम्भे प्रतिपदविधानातेनैव सर्वत्राण्विधिर्युक्तः, अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमित्येवोच्येत, आरम्भसामर्थ्याद्धियो विहितो न च प्राप्नोति स एव भविष्यति ? इत्यत आह - अण्ग्रहणमिति । इक्ष्वाकुशब्दाद् ठोर्देअशे ठञ्ऽ प्राप्तः, तस्मिन् जनपदवुञाबाधिते यद्यण्ग्रहणं नक्रियते पुनर्वचनाद् वुञेव स्याद्, अण्ग्रहणे त्वणेव भवति । ऐक्ष्वाक इति । दाण्डिनायनादिसूत्रेण टिलोपः, एवं चाण्ग्रहणादेवायमोर्देअशे ठञो बाधको न परत्वात् ॥