विभाषा कुरुयुगन्धराभ्याम्

4-2-130 विभाषा कुरुयुगन्धराभ्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कुरु युगन्धर इत्येताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः। कौरवकः,कौरवः। यौगन्धरकः, यौगन्धरः। जनपदशब्दावेतौ, ताभ्याम् <<अवृद्धादपि०>>४.२.१२५इति नित्ये वुञि प्राप्ते विकल्प उच्यते। कुरुशब्दः कच्छादिषु४.२.१३३ अपि पठ्यते, तत्र वचनादणपि भविष्यति। सैषा युगन्धरार्था विभाषा। <<मनुष्यतत्स्थयोः०>>४.२.१३४तु कुरुशब्दाद् नित्य एव वुञ् प्रत्ययो भवति। कौरवको मनुष्यः, कौरवकमस्य हसितमिति॥

Siddhanta Kaumudi

Up

वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा कुरुयुगन्धराभ्याम्>> - विभाषा कुरु । कुरुयुगन्धरौ जनपदौ । अवृद्धाभ्यामपि ताभ्याम्अवृद्धादपी॑ति नित्यं प्राप्ते विकल्पः ।

Padamanjari

Up

कुरुशब्दः कच्छादिषु पठ।ल्ते इति कथं तर्हि कुरुशब्दाद् वुञः प्राप्तिरुक्ता, ताभ्यामवृद्धादपीति नित्यं वुञि प्राप्त इति ? आद्यप्राप्त्यभिप्रायेण तदुक्तम्, न पुनर्योऽनेन विकल्पेन बाध्यते तदभिप्रायेण । येऽपि पठन्ति -वुञि सिद्ध इति, प्राप्त इत्यर्थः । यथा सिद्धे सत्यारम्भो नियमार्थ इति कुरुशब्दार्थं विभाषाग्रहणं न कर्तव्यमिति प्रतिपादयिष्यन्नाह - कुरुशब्दः कच्छादिषु पठ।ल्तीति । ततः किमित्यत्राह - तत्रेति । किमर्तं तर्हि विभाषाग्रहणमित्याह -सैषेति । ननु युगन्धरशब्दादपि ठवृद्धादपिऽ इति नित्ये वुञि सिद्धेऽन्तरेणापि विभाषाग्रहणं पुनर्वचनाद्विकल्पो विज्ञास्यते ? नैवं शक्यम् ; विपर्ययोऽपि स्यात् । युगन्धरशब्दान्नित्यो वुञ्, ठवृद्धादपिऽ इत्यनेन तु विभाषित इति पुनरारम्भो ह्यएवमप्युपपद्यते । मनुष्यतत्स्थयोस्त्विति । एतच्च कच्छादिषु पाठसामर्थ्याल्लभ्यते, अन्यथाऽनयैव विभाषया वुञणोः सिद्धत्वातत्रास्य पाठोऽनर्थकः स्यात् ॥