4-2-129 अरण्यात् मनुष्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
अरण्यशब्दाद् वुञ् प्रत्ययो भवति शैषिको मनुष्येऽभिधेये। औपसंख्यानिकस्य णस्यापवादः। आरण्यको मनुष्यः॥ पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्यम्॥ आरण्यकः पन्थाः। आरण्यकोऽध्यायः। आरण्यको न्यायः। आरण्यको विहारः। आरण्यको मनुष्यः। आरण्यको हस्ती॥ वा गोमयेषु॥ आरण्याः,आरण्यका गोमयाः। एतेष्विति किम्? आरण्याः पशवः॥
वुञ् ॥ अरण्याण्ण इत्यास्यापवदः ॥<!पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् !> (वार्तिकम्) ॥ आरण्यकः पन्थाः, अध्यायो, न्यायो, विहारो, मनुष्यो, हस्ती वा ।<!वा गोमयेषु !> (वार्तिकम्) ॥ आरण्यकाः आरण्या वा गोमयाः ॥
<<अरण्यान्मनुष्ये>> - अरण्यान्मनुष्ये । आरण्यक इति । पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । वा गोमयेष्विति । वार्तिकमिदम् ।
औपसंख्यानिकस्येति । ठरण्याण्णो वक्तव्यःऽ इत्युपसंख्यानप्राप्तस्य ।'मनुष्ये' इत्यल्पमिदमुच्यते, इत्याह - पथ्यध्यायेति । आरण्यकोऽध्याय इति । योऽरण्येऽधीयते उपनिषद्भागः स उच्यते । विहारः उ क्रीडा ॥