4-2-13 कौमार अपूर्ववचने प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन
अपूर्ववचने कौमारः
'अविवाहितम्' अस्मिन् अर्थे 'कौमार' इति शब्दः निपात्यते ।
कौमार इत्येतदण्प्रत्ययान्तं निपात्यतेऽपूर्ववचने। पाणिग्रहणस्यापूर्ववचनम्। उभयतः स्त्रिया अपूर्वत्वे निपातनमेतत्। अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः। कुमारीशब्दाद् द्वितीयासमर्थादुपयन्तरिः प्रत्ययः। अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या। प्रथमान्तादेव स्वार्थे प्रत्ययोऽपूर्वत्वे द्योत्ये।
कौमारापूर्ववचने कुमार्या अण् विधीयते।
अपूर्वत्वं यदा तस्याः कुमार्यां भवतीति वा॥
कुमार्यां भवः कौमारः पतिः, तस्य स्त्री कौमारी भार्येति सिद्धम्॥
कौमारेत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ॥
<<कौमारापूर्ववचने>> - कौमारापूर्व । तेनेति परिवृतो रथ इति च निवृत्तम् । अविभक्तिक इति । लुप्तप्रथमाक इति भावः । अपूर्वशब्दो भावप्रधान इत्याह — अपूर्वत्वे निपातनमिदमिति । न पूर्व पतिर्यस्याः सा अपूर्वपतिः, तां कुमारीमुपयतवान् पतिरित्यर्थे द्वितीयान्तात्कुमारीशब्दादण् स्यादित्येकोऽर्थः । कुमारी अपूर्वपतिमुपपन्नेत्यर्थे प्रथमान्तात्कुमारीशब्दादण् स्यादित्यन्योऽर्थः । आद्यो उदाहरति — अपूर्वपतिमिति । द्वितीये उदाहरति — यद्वेत्यादि । आद्ये उपयन्तरि प्रत्ययः । द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः ।
अपूर्ववचन इति । अपूर्वशब्दो भावप्रधानः । अपूर्वत्वस्य वचनमपूर्ववचनम्, तस्मिन्नपूर्ववचने । कस्य पुनरपूर्वत्वोक्तावित्याह - पाणिग्रहणस्येति । एतच्च निपातनसामर्थ्याल्लभ्यते । उभयतः । आद्यादित्वातसिः । स्त्रीपुंसयोरुभयोरप्येतन्निपातनमिष्यते, उभयोश्च पक्षयोरपूर्वत्वं स्त्रिया एव, न पुंस इत्यर्थः । तत्र कौमारेति स्त्रीपुंससाधारणप्रातिपदिकमात्रनिर्देशादवसीयते - उभयोरपि निपातनमिति । स्त्रिया एवापूर्वत्वमित्येततु निपातनबलाल्लभ्यते । अपूर्वपतिमिति । यस्याः पाणिर्न केनचिद्गृहीतपूर्वः साऽपूर्वपतिः, न विद्यते पूर्वः पतिरिति कृत्वा, तामुपपन्नःउप्राप्तः, भार्यात्वेन स्वीकृतवानित्यर्थः । स तु पूर्वकृतोद्वाहो भवतु मा वा भूत् । अपूर्वपतिरिति । अयमपि बहुव्रीहिः, अत्रापि पुरुषः पूर्ववत् । कोमारेत्यादि । कौमारेति निपात्यतेऽपूर्वचने । किमत्र निपात्यते ? कुमार्या अण् विधीयते । कदा ? अपूर्वत्वं यदा तस्याः । यदा कुमार्या अपूर्वत्वं न पुंसस्तदेत्यर्थः । कुमार्या भवतीति वेति । अनेन योगः प्रत्याख्यायते; यः कुमारीमुपपन्नस्तस्यामसौ भवति, तदायतत्वाद्धर्माचरणादेः, ततश्च'तत्र भवः' इत्यवाण सिद्धः । यद्यपि वाण्याद्यपि कुमार्यां भवति तथापि सत्यभिधाने'तत्र भावः' इति भवत्येव । सूत्रारम्भेऽपि हि नासौ दण्डवारितः, एवं तावत्कौमार इति सिद्धम् । स्त्रियामपि सिद्धम्, कथम् ? कौमारस्य स्त्री कौमारी, प्रत्यासत्या च यस्यामसाभवन् कौमारव्यपदेशं लभते सैवाभिधीयते न स्त्र्यन्तरम्, एतच्च सूत्रारम्भेऽप्यङ्गीकर्तव्यम् ॥