4-2-128 नगरात् कुत्सनप्रावीण्ययोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
नगरशब्दाद् वुञ् प्रत्ययो भवति शैषिकः कुत्सने प्रावीण्ये च गम्यमाने। प्रत्ययार्थविशेषणं चैतत्, कुत्सने प्रावीण्ये च जातादौ प्रत्ययार्थ इति। कुत्सनं निन्दनम्। प्रावीण्यं नैपुण्यम्।
केनायं मुषितः पन्था गात्रे पक्ष्मालिधूसरः।
इह नगरे मनुष्येण संभाव्यत एतन्नागरकेण। चोरा हि नागरका भवन्ति।
केनेदं लिखितं चित्रं मनोनेत्रविकाशि यत्।
इह नगरे मनुष्येण संभाव्यत एतन्नागरकेण। प्रवीणा हि नागरका भवन्ति। कुत्सनप्रावीण्ययोरिति किम्? नागरा ब्राह्मणाः। कत्र्यादिषु तु संज्ञाशब्देन साहचर्यात् संज्ञानगरं पठ्यते, तस्मिन् नागरेयकमिति प्रत्युदाहार्यम्॥
नगरशब्दाद्वुञ् स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । कुत्सनेति किम् । नागरा ब्राह्मणाः ॥
<<नगरात् कुत्सनप्रावीण्ययोः>> - नगरात्कुत्सन । नागरा ब्राआहृणा इति । कत्र्यादिषु माहिष्मतीसाहचर्येण संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम् । अतो न ढकञ् ।प्राचां ग्रामनगराणामि॑ति सूत्रभाष्ये 'नागरा' इत्युदाहरणात् ।
केनेदं मुषितमिति प्रश्नः, इह नगरे मनुष्येणेत्युतरम् । सम्भाव्यत एतदित्यादि प्रष्टुअर्वचनम् । संज्ञानगरं पठ।ल्त इति । माहिष्मतीशब्दसाहचर्यात् संज्ञानगरं संज्ञाभूतो नगरशब्द इत्यर्थः ॥