4-2-127 धूमादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
धूमादिभ्यो देशवाचिभ्यः प्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति शैषिकः। अणादेरपवादः धौमकः। खाण्डकः। पाथेयशब्दः पठ्यते, तस्य योपधत्वादेव वुञि सिद्धे सामर्थ्याददेशार्थं ग्रहणम्। तथा विदेहानर्तशब्दयोर्जनपदलक्षणे वुञि सिद्धेऽदेशार्थः पाठः। विदेहानां क्षत्रियाणां स्वं वैदेहकम्। आनर्तकम्। समुद्रशब्दः पठ्यते, तस्य नावि मनुष्ये च वुञिष्यते। सामुद्रिका नौः। सामुद्रको मनुष्यः। अन्यत्र न भवति — सामुद्रं जलमिति॥ धूम। खण्ड। शशादन। आर्जुनाद। दाण्डायनस्थली। माहकस्थली। घोषस्थली। माषस्थली। राजस्थली। राजगृह। सत्रासाह। भक्षास्थली। मद्रकूल। गर्तकूल। आञ्जीकूल। द्व्याहाव। त्र्याहाव। संहीय। वर्वर। वर्चगर्त। विदेह। आनर्त। माठर। पाथेय। घोष। शिष्य। मित्र। वल। आराज्ञी। धार्तराज्ञी। अवयात। तीर्थ। कूलात् सौवीरेषु (ग०सू०९५)। समुद्रान्नावि मनुष्ये च(ग०सू०९६)। कुक्षि। अन्तरीप। द्वीप। अरुण। उज्जयिनी। दक्षिणापथ। साकेत॥
देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः ॥
<<धूमादिभ्यश्च>> - धूमादिभ्यश्च ।देशवाचिभ्यो वु॑ञिति शेषपूरणम् ।
अणाअदेरपवाद इति । अवृद्धेभ्यो धूमादिभ्योऽणोऽपवादः, वृद्धेभ्यश्च्छस्य, उदीच्यग्रामेभ्यस्त्वञः, वाहीकग्रामेभ्यष्ठञ्ञिठयोः । कूलात्सौवीरेष्विति । कौलको भवति सौवीरेषु, कौलमन्यत्र ॥