कच्छाग्निवक्त्रवर्त्तोत्तरपदात्

4-2-126 कच्छाग्निवक्त्रगर्तोत्तरपदात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अवृद्धात्

Kashika

Up

index: 4.2.126 sutra: कच्छाग्निवक्त्रवर्त्तोत्तरपदात्


देशे इत्येव उत्तरपदशब्दः प्रत्येकमभिसम्बध्यते। कच्छाद्युत्तरपदाद् देशवाचिनः। प्रातिपदिकाच् च अवृद्धाद् वृद्धाच् च वुञ् प्रत्ययो भवति शैषिकः। छणोरपवादः। दारुकच्छकः। पैप्पलीकच्छकः। काण्डाग्नकः। वैभुजाग्नकः। ऐन्द्रवक्त्रकः। सैन्धुवक्त्रकः। बाहुवर्तकः। चाक्रवर्तकः।

Siddhanta Kaumudi

Up

index: 4.2.126 sutra: कच्छाग्निवक्त्रवर्त्तोत्तरपदात्


देशवाचिनो वृद्धादवृद्धाच्च वुञ् स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः ॥

Balamanorama

Up

index: 4.2.126 sutra: कच्छाग्निवक्त्रवर्त्तोत्तरपदात्


कच्छाग्निवक्त्रगर्त्तोत्तरपदात् - कच्छाग्नि । कच्छ, अग्नि, वक्त, वर्त-एतदुत्तरपदादित्यर्थः । शेषपूरणेन सूत्रं व्याचष्टे — देशवाचिन इति । छाऽणोरपवादः । दारुकच्छक इति । दारुकच्छे भव इत्यर्थः । काण्डाग्नक इति । काण्डाग्नौ भव इत्यथः । अकादेशेयस्येति चे॑ति इकारलोपः । सैन्धुवक्रक इति । सिन्धुवक्रे भव इत्यर्थः । बाहुवर्तक इति । बहुवर्ते भव इत्यर्थः ।

Padamanjari

Up

index: 4.2.126 sutra: कच्छाग्निवक्त्रवर्त्तोत्तरपदात्


कच्छशब्दार्थमुतरपदग्रहणम् । स हि केवलोऽपि कूलाख्ये देशे वर्तते, इतरेषां तु केवलानां देशवृत्यसम्भवादेव तदन्तविधिः सिद्धः । कच्छाद्यन्तादित्युच्यमाने बहुच्पूर्वादपि स्यादित्युतरपदग्रहणम् ॥