अवृद्धादपि बहुवचनविषयात्

4-2-125 अवृद्धात् अपि बहुवचनविषयात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् जनपदतदवध्यः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जनपदतदवध्योरित्येव। अवृद्धाद् वृद्धात् च जनपदात् तदवधिवाचिनश्च बहुवचनविषयात् प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः। अण्छयोरपवादः। अवृद्धाद् जनपदात् तावत् — अङ्गाः। वङ्गाः। कलिङ्गाः। आङ्गकः। वाङ्गकः। कालिङ्गकः। अवृद्धाज्जनपदावधेः — अजमीढाः। अजक्रन्दाः। आजमीढकः। आजक्रन्दकः। वृद्धात् जनपदात् — दार्वाः। जाम्ब्वाः। दार्वकः। जाम्ब्वकः। वृद्धाद् जनपदावधेः — कालञ्जराः। वैकुलिशाः। कालञ्जरकः। वैकुलिशकः। विषयग्रहणमनन्यत्रभावार्थम्। जनपदैकशेषबहुत्वे मा भूत्। वर्तन्यः — वार्तनः। अपिग्रहणं किम्, यावता वृद्धात् पूर्वेणैव सिद्धम्? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायीति समुच्चीयते॥

Siddhanta Kaumudi

Up

अवृद्धाद्वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्, आङ्गकः । अवृद्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे माभूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अवृद्धादपि बहुवचनविषयात्>> - अवृद्धादपि बहुवचनविषयात् । अवृद्धाज्जनपदादिति । 'उदाह्यियते' इति शेषः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । अजमीढाख्यो जनपदः कस्यचिज्जनपदस्यावधिः । वृद्धाज्जनपदादिति । 'उदाह्यियते' इति शेषः । दार्वक इति । 'दार्वा' इति बहुवचनान्तो जनपदविशेषे वर्तते । तत्र भव इत्यर्थः । कालञ्जरक इति । कलञ्जरेषुभव इत्यर्थः ।

Padamanjari

Up

अण्च्छयोरपवाद इति । अवृद्धादणोऽपवादो वृद्धाच्छस्य । इहावृद्धादपि बहुवचनादित्येव सिद्धम्; यौगिको बहुवचनशब्दः - बहूनामर्थानां वचनो बहुवचन इति । यदि वा बहुवचनाद्वहुवचनान्तादित्यर्थः, नार्थो विषयग्रहणेन ? तत्राह - जनपदैकशेषबहुत्व इति । जनपदस्यैकशेषवशेन यद्वहुत्वं तत्रेत्यर्थः । वर्तन्य इति । अवयवभेदेन भेदमाश्रित्य एकशेषः । नायं नित्यबहुवचनान्तः; द्व्येकयोरपि दर्शनात् । तक्रकौण्डिन्यायेनेति । पूर्वसूत्रे हि जनपदसामान्ये वृद्धाद् वुञ् विहितः, यथा - ब्राह्मणसामान्ये दधिदानम् । इह तु बहुवचनविषये विशेषेऽवृद्धाद् वुञ्, यथा - कौण्डिन्ये तक्रदानम्, ततश्च बहुवचनादपि वृद्धाद् वुञि प्राप्ते आरभ्यमाणोऽवृद्धाद् वुञ् वृद्धाद् वुञो बाधकः स्यादित्यापिशब्देन समुच्चीयत इत्यर्थः । इह बहुवचनविषयादित्येतावता सिद्धमवृद्धार्थोऽयमारम्भः । वृद्धाधिकारविच्छेदार्थं त्ववृद्धादपीति वचनम् ॥