4-2-124 जनपदतदवध्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
वृद्धादित्येव, देश इति च। तद्विशेषणं जनपदतदवधी। वृद्धात् जनपदवाचिनस्तदवधिवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः। छस्यापवादः। आभिसारकः। आदर्शकः। जनपदावधेः खल्वपि — औपुष्टकः। श्यामायनकः। तदवधिरपि जनपद एव गृह्यते न ग्रामः। किमर्थं तर्हि अवधिग्रहणम्? बाधकबाधनार्थम्। गर्तोत्तरपदाच्छं बाधित्वा वुञेव जनपदावधेर्भवति। त्रैगर्तकः॥
जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् । आदर्शकः । त्रैगर्तकः ॥
<<जनपदतदवध्योश्च>> - जनपदतदवध्योश्च । आदर्शक इति । आदर्शो नाम जनपदः । तत्र भव इत्यर्थः । त्रिगत्रो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तरपदच्छं बाधितुमिह तदवधिग्रहणम् । तदाह — त्रैगर्तक इति ।
तदवधिरपि जनपद एव गृह्यते इति । स चासाववधिरिति कर्मधारय आश्रीयते, न तु तस्यावधिस्तदवधिरिति षष्ठीसमास इत्यर्थः । तथा हि सति मौञ्जी नामावधिभूतो ग्रामः, तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । कस्य पुनरसाववधिरिति चेत् ? सन्निधानाज्जनपदस्यैवेति विज्ञायते ॥ गर्तोतरपदाच्छ्ंअ बाधित्वेति । अन्यथा तु गर्तोतरपदाच्छाए भवतीत्यस्यावकाशः - वृकगर्तीयः, जनपदवुञोऽवकाशः - आङ्गकः; त्रिगर्तशब्दादुभयप्रसङ्गे परत्वाच्छः स्यात्, ततश्च गर्तोतरपदाच्छविधेर्जनपदाद् वुञ् पूर्वविप्रतिषिद्ध इति पूर्वविप्रतिषेधः पठितव्यो भवति । त्रैगर्तक इति । उतरसूत्रेण वुञ् । एतेनोतरत्र तदवधिग्रहणस्योपयोगं दर्शयति ॥