रोपधेतोः प्राचाम्

4-2-123 रोपधेतोः प्राचाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.123 sutra: रोपधेतोः प्राचाम्


वृद्धतित्येव, देशे इति च। तद्विशेसणं प्राग्ग्रहणम्। रौपधातीकारान्ताच् च प्रग्देशवाचिनो वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः। छस्य अपवादः। पाटलिपुत्रकाः ऐकचक्रकाः। ईतः खल्वपि काकन्दी। काकन्दकः। माकन्दी। माक्नदकः। प्राचाम् इति किम्? दात्तामित्रीयः। तपरकराणं विस्पष्टार्थम्।

Siddhanta Kaumudi

Up

index: 4.2.123 sutra: रोपधेतोः प्राचाम्


रोपधादीकारान्ताच्च प्राद्गेशवाचिनो वृद्धाद्वुञ् स्यात् ॥ पाटलिपुत्रः । ईतः, काकन्दकः ॥

Balamanorama

Up

index: 4.2.123 sutra: रोपधेतोः प्राचाम्


रोपधेतोः प्राचाम् - रोपधेतोः प्राचां । रोपधश्च, ईच्च तयोरिति द्वन्द्वः । षष्ठी पञ्चम्यर्थे । प्राचामिति धेशविशेषणं । तदाह — रोपधादित्यादिना । ईत इति । 'उदाह्यियते' इति शेषः । काकन्दक इति । काकन्दी नाम देशः, तत्र भव इत्यर्थः ।

Padamanjari

Up

index: 4.2.123 sutra: रोपधेतोः प्राचाम्


ईकारान्ताच्चेति । ह्रस्वस्य तु ग्रहणं न भवति, तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्। एकचक्र इति । एकचक्रा नाम पाग्देशे नगरी, तत्र ठेङ् प्राचां देशेऽ इति वृद्धसंज्ञा, ककन्देन निर्वृता नगरी काकंन्दी, स्त्रीषु'सौवीरसाल्वप्राक्ष' इत्यञ् । तपरकरणं विस्पष्टार्थमिति । न तु ह्रस्वप्लुतयोनिवृत्यर्थम् ; तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्, ईकारस्यानण्त्वेन तयोरघणाच्च । असति तु तकारे रोपधयोःऽ इत्युच्यमाने किमत्र गृहीतमिति विस्पष्ट्ंअ न ज्ञायते । तकारे तु सति वर्णनिर्देशो निश्चीयते, तत्रैव तस्य प्रसिद्धत्वात् । ठीकाररोपधयोःऽ इति निर्देशे गौरवप्रसङ्गः ॥