4-2-122 प्रस्थपुरवहान्तात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
वृद्धादित्येव, देश इति च। अन्तशब्दः प्रत्येकमभिसंबध्यते। प्रस्थ पुर वह इत्येवमन्ताद् देशवाचिनः प्रातिपदिकाद् वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः। छस्यापवादः। मालाप्रस्थकः। नान्दीपुरकः। कान्तीपुरकः। पैलुवहकः। फाल्गुनीवहकः। पुरान्तो रोपधः, तत उत्तरसूत्रेणैव सिद्धम् अप्रागर्थमिह ग्रहणम्॥
एतदन्ताद्वृद्धादेशवाचिनो वुञ् स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राद्गेशे तूत्तरेण सिद्धम् ॥
<<प्रस्थपुरवहान्ताच्च>> - प्रस्थपुरवहान्ताच्च । एतदन्तादिति । प्रस्थ, पुर, वह-एतदन्तादित्यर्थः । ननु पुरान्तग्रहणं व्यर्थं, नान्दीपुरक इत्यत्ररोपधेतोः प्राचा॑मित्युत्तरसूत्रेण सिद्धत्वादित्यत आह — पुरान्तेति ।
वृद्धादिति वर्तते इति । यद्येवमन्तग्रहणनर्थकं प्रस्थादीनामवृद्धत्वादेव तदन्तविधिर्भविष्यति ? नैतदस्ति;'वा नामधेयस्य' इति प्रस्थादीनामेव पदानां वृद्धत्वसम्भवात् । अथाप्येवंनाम्नो देशस्याभावः, तथापि यथा पूर्वसूत्रे धन्वविशेषग्रहणं तथेहापि सम्भाव्येत नादीपुरं नाम वाहीकेषु ग्रामः, तत्र वाहीकग्रामलक्षणौ ठञ्ञिठौ च्छस्यापवादौ, अयमपि वुञ् च्छस्यापवादः । इह त्वपवादविप्रतिषेधाद् वुञ् भवति । एवं च पातनप्रस्थकः, कौञ्जीवहक इत्यत्रापि वुञेव भवति ॥