धन्वयोपधाद्वुञ्

4-2-121 धन्वयोपधात् वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.121 sutra: धन्वयोपधाद्वुञ्


वृद्धातिति वर्तते, देशे इति च। धन्ववाचिनो यकारौपधाच् च देशाभिधायिनो वृद्धात् प्रातिपदिकात् वुञ् प्रत्ययो भवति शैषिकः। धन्वशब्दो मरुदेशवचनः। पारेधन्वकः। ऐरावतकः। योपधात् सांकाश्यकः। कम्पिल्यकः।

Siddhanta Kaumudi

Up

index: 4.2.121 sutra: धन्वयोपधाद्वुञ्


धन्वाविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छण् -<{SK1292}> आदिसूत्रेण ण्यान्तौ । साङ्काश्यका । काम्पिल्यकः ॥

Balamanorama

Up

index: 4.2.121 sutra: धन्वयोपधाद्वुञ्


धन्वयोपधाद्वुञ् - धन्वयोपधाद्वुञ् । ऐरावतं धन्वेति । ऐरावताख्यं धन्वेत्यर्थः । धन्व-मरुप्रदेशः । 'समानो मरुधन्वानौ' इत्यमरः ।आष्टकं नाम धन्वे॑ति बाष्यान्नपुंसकत्वमपि । ऐरावतक इति । ऐरावताख्ये मरुप्रदेशे भव इत्यर्थः । वुञ्, अकादेशः । साङ्काश्यकः काम्पिल्यक इति । साङ्काश्ये काम्पिल्ये च भव इत्यर्थः ।

Padamanjari

Up

index: 4.2.121 sutra: धन्वयोपधाद्वुञ्


धन्ववाचिन इति । धन्वविशेषवाचिन ऐरावतादेरित्यर्थः । स्वरूपस्य पर्यायाणां च ग्रहणं न भवति, वृद्धाधिकारात् । पारेधन्वक इति ।'पारेमध्ये षष्ठ।ल वा' इत्यव्ययीभावः, ठचश्चऽ इति टच् समासन्तः, वुञि यस्येति लोपः । यदि तु धन्वशब्दो नपुंसकलिङ्गः, ततः'नपुंसकादन्यतरस्याम्' इति टजभावपक्षे वुञिऽ नस्तद्धितेऽ इति टिलोपः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्च्छणादिसूत्रेण ण्यान्तौ ॥